Arthashastra. Book 1, Chapter 1: The king owes his day to the office, not himself

Book 1 · Chapter 1

Concerning Discipline

The king owes his day to the office, not himself

।। ओं नमः शुक्र-बृहस्पतिभ्याम् ।। पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ।। ०१.१.०१ ।। तस्यायं प्रकरण-अधिकरण-समुद्देशः ।। ०१.१.०२ ।। विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ।। ०१.१.०३अ ।। गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ।। ०१.१.०३ब ।। मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ।। ०१.१.०३क ।। जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ।। ०१.१.०४अ ।। समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ।। ०१.१.०४ब ।। विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ।। ०१.१.०४क ।। देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ।। ०१.१.०४ड ।। नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ।। ०१.१.०४ए ।। गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ।। ०१.१.०४फ़् ।। व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ।। ०१.१.०५अ ।। सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ।। ०१.१.०५ब ।। कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ।। ०१.१.०६अ ।। आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ।। ०१.१.०६ब ।। एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ।। ०१.१.०६क ।। दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ।। ०१.१.०७ ।। प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ।। ०१.१.०८ ।। षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ।। ०१.१.०९अ ।। सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ।। ०१.१.०९ब ।। संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ।। ०१.१.०९क ।। मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ।। ०१.१.०९ड ।। दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ।। ०१.१.०९ए ।। प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ।। ०१.१.१० ।। शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ।। ०१.१.११अ ।। क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ।। ०१.१.११ब ।। स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ।। ०१.१.१२ ।। भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ।। ०१.१.१३ ।। दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ।। ०१.१.१४ ।। उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ।। ०१.१.१५ ।। पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ।। ०१.१.१६ ।। तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ।। ०१.१.१७ ।। शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ।। ०१.१.१८ ।। सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ।। ०१.१.१९अ ब ।। कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ।। ०१.१.१९च्द् ।।

✦ ✦ ✦

The life of a king is not a private life. The hours of his sleep, the time he eats, the bo
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.