Arthashastra. Book 1, Chapter 10: The four allurements. Testing ministers under dharma, artha, kama, fear
Book 1 · Chapter 10
Concerning Discipline
The four allurements. Testing ministers under dharma, artha, kama, fear
मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ।। ०१.१०.०१ ।। पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ।। ०१.१०.०२ ।। स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०३ ।। प्रत्याख्याने शुचिः इति धर्म-उपधा ।। ०१.१०.०४ ।। सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०५ ।। प्रत्याख्याने शुचिः इत्यर्थ-उपधा ।। ०१.१०.०६ ।। परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ।। ०१.१०.०७ ।। प्रत्याख्याने शुचिः इति काम-उपधा ।। ०१.१०.०८ ।। प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ।। ०१.१०.०९ ।। तेनौद्वेगेन राजा तानवरुन्ध्यात् ।। ०१.१०.१० ।। कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.११ ।। प्रत्याख्याने शुचिः इति भय-उपधा ।। ०१.१०.१२ ।। तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ।। ०१.१०.१३ ।। सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ।। ०१.१०.१४ ।। सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ।। ०१.१०.१५ ।। त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ।। ०१.१०.१६अ ब ।। अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ।। ०१.१०.१६च्द् ।। न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ।। ०१.१०.१७अ ब ।। शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ।। ०१.१०.१७च्द् ।। न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ।। ०१.१०.१८अ ब ।। कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ।। ०१.१०.१८च्द् ।। कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ।। ०१.१०.१९अ ब ।। नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ।। ०१.१०.१९च्द् ।। तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।। ०१.१०.२०अ ब ।। शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ।। ०१.१०.२०च्द् ।।
✦ ✦ ✦
“The king shall dismiss a priest who, when ordered, refuses to teach the Vedas to an outcas…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.