Arthashastra. Book 1, Chapter 11: The nine kinds of spies the king must keep
Book 1 · Chapter 11
Concerning Discipline
The nine kinds of spies the king must keep
उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ।। ०१.११.०१ ।। पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ।। ०१.११.०२ ।। तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ।। ०१.११.०३ ।। प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ।। ०१.११.०४ ।। स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ।। ०१.११.०५ ।। कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ।। ०१.११.०६ ।। वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ।। ०१.११.०७ ।। सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ।। ०१.११.०८ ।। कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ।। ०१.११.०९ ।। स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१० ।। वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ।। ०१.११.११ ।। स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१२ ।। मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ।। ०१.११.१३ ।। स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ।। ०१.११.१४ ।। वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ।। ०१.११.१५ ।। शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ।। ०१.११.१६ ।। समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ।। ०१.११.१७ ।। तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ।। ०१.११.१८ ।। सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ।। ०१.११.१९ ।। मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ।। ०१.११.२० ।। ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ।। ०१.११.२१ ।। पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ।। ०१.११.२२अ ब ।। जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ।। ०१.११.२२च्द् ।।
✦ ✦ ✦
“Assisted by the council of his ministers tried under espionage, the king shall proceed to…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.