Arthashastra. Book 1, Chapter 12: Wandering spies. The eyes of the king in every corner
Book 1 · Chapter 12
Concerning Discipline
Wandering spies. The eyes of the king in every corner
ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।। ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।। ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।। परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ।। ०१.१२.०४ ।। एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ।। ०१.१२.०५ ।। तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ।। ०१.१२.०६ ।। तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ।। ०१.१२.०७ ।। तं सत्त्रिणः संस्थास्वर्पयेयुः ।। ०१.१२.०८ ।। सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ।। ०१.१२.०९ ।। तं भिक्ष्क्यः संस्थास्वप्रयेयुः ।। ०१.१२.१० ।। संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ।। ०१.१२.११ ।। न चान्योन्यं संस्थास्ते वा विद्युः ।। ०१.१२.१२ ।। भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ।। ०१.१२.१३ ।। दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ।। ०१.१२.१४ ।। त्रयाणां एक-वाक्ये सम्प्रत्ययः ।। ०१.१२.१५ ।। तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ।। ०१.१२.१६ ।। कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ।। ०१.१२.१७ ।। त उभय-वेतनाः ।। ०१.१२.१८ ।। गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ।। ०१.१२.१९अ ब ।। तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ।। ०१.१२.१९च्द् ।। एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ।। ०१.१२.२०अ ब ।। उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ।। ०१.१२.२०च्द् ।। अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ।। ०१.१२.२१अ ब ।। शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ।। ०१.१२.२१च्द् ।। दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ।। ०१.१२.२२अ ब ।। कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ।। ०१.१२.२२च्द् ।। वने वन-चराः कार्याः श्रमण-आटविक-आदयः ।। ०१.१२.२३अ ब ।। पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ।। ०१.१२.२३च्द् ।। परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ।। ०१.१२.२४अ ब ।। चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ।। ०१.१२.२४च्द् ।। अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ।। ०१.१२.२५अ ब ।। पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ।। ०१.१२.२५च्द् ।।
✦ ✦ ✦
“Having set up the institution of stationary spies, the king shall create wandering spies.…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.