Arthashastra. Book 1, Chapter 13: On the use of spies
Book 1 · Chapter 13
Concerning Discipline
On the use of spies
कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ।। ०१.१३.०१ ।। सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ।। ०१.१३.०२ ।। "सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति" इति ।। ०१.१३.०३ ।। तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ।। ०१.१३.०४ ।। "मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ।। ०१.१३.०५ ।। धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ।। ०१.१३.०६ ।। तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ।। ०१.१३.०७ ।। तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ।। ०१.१३.०८ ।। तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति "तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ।। ०१.१३.०९ ।। इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ।। ०१.१३.१० ।। तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ।। ०१.१३.११ ।। तस्माद्राजानो नावमन्तव्याः ।। ०१.१३.१२ ।। इत्येवं क्षुद्रकान्प्रतिषेधयेत् ।। ०१.१३.१३ ।। किं-वदन्तीं च विद्युः ।। ०१.१३.१४ ।। ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ।। ०१.१३.१५ ।। तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.१६ ।। अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ।। ०१.१३.१७ ।। परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ।। ०१.१३.१८ ।। तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ।। ०१.१३.१९ ।। विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ।। ०१.१३.२० ।। गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ।। ०१.१३.२१ ।। क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ।। ०१.१३.२२ ।। तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ।। ०१.१३.२३ ।। तुष्टानर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.२४ ।। अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ।। ०१.१३.२५ ।। एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ।। ०१.१३.२६अ ब ।। पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ।। ०१.१३.२६च्द् ।।
✦ ✦ ✦
“The king shall maintain spies in the guise of disciples, recluses, householders, traders,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.