Arthashastra. Book 1, Chapter 14: Map the factions before you try to lead them
Book 1 · Chapter 14
Concerning Discipline
Map the factions before you try to lead them
कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ।। ०१.१४.०१ ।। संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ।। ०१.१४.०२ ।। स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ।। ०१.१४.०३ ।। परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ।। ०१.१४.०४ ।। आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ।। ०१.१४.०५ ।। तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ।। ०१.१४.०६ ।। "यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम्" इति क्रुद्ध-वर्गं उपजापयेत् ।। ०१.१४.०७ ।। "यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम्" इति भीत-वर्गं-उपजापयेत् ।। ०१.१४.०८ ।। "यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम्" इति लुब्ध-वर्गं-उपजापयेत् ।। ०१.१४.०९ ।। "यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम्" इति मानि-वर्गं उपजापयेत् ।। ०१.१४.१० ।। तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ।। ०१.१४.११अ ब ।। योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ।। ०१.१४.११च्द् ।। लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ।। ०१.१४.१२अ ब ।। अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ।। ०१.१४.१२च्द् ।।
✦ ✦ ✦
“Every court contains four kinds of people, and a wise ruler learns to name each before he…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.