Arthashastra. Book 1, Chapter 15: The role of counsel
Book 1 · Chapter 15
Concerning Discipline
The role of counsel
कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ।। ०१.१५.०१ ।। मन्त्र-पूर्वाः सर्व-आरम्भाः ।। ०१.१५.०२ ।। तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।। ०१.१५.०३ ।। श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ।। ०१.१५.०४ ।। तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ।। ०१.१५.०५ ।। उच्छिद्येत मन्त्र-भेदी ।। ०१.१५.०६ ।। मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ।। ०१.१५.०७ ।। इङ्गितं अन्यथा-वृत्तिः ।। ०१.१५.०८ ।। आकृति-ग्रहणं आकारः ।। ०१.१५.०९ ।। तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ।। ०१.१५.१० ।। तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ।। ०१.१५.११ ।। तस्मादाद्रक्षेन्मन्त्रं ।। ०१.१५.१२ ।। "मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ।। ०१.१५.१३ ।। तस्माद्गुह्यं एको मन्त्रयेत" इति भारद्वाजः ।। ०१.१५.१४ ।। "मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ।। ०१.१५.१५ ।। साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ।। ०१.१५.१६ ।। "तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ।। ०१.१५.१७अ ब ।। आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ।। ०१.१५.१७च्द् ।। "नएकस्य मन्त्र-सिद्धिरस्ति" इति विशाल-अक्षः ।। ०१.१५.१८ ।। "प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.१५.१९ ।। अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ।। ०१.१५.२० ।। तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ।। ०१.१५.२१ ।। "न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ।। ०१.१५.२२अ ब ।। बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ।। ०१.१५.२२च्द् ।। "एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम्" इति पाराशराः ।। ०१.१५.२३ ।। "यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् "कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ।। ०१.१५.२४ ।। ते यथा ब्रूयुस्तत्कुर्यात् ।। ०१.१५.२५ ।। एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ।। ०१.१५.२६ ।। नैति पिशुनः ।। ०१.१५.२७ ।। "मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ।। ०१.१५.२८ ।। स दोषः ।। ०१.१५.२९ ।। तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ।। ०१.१५.३० ।। तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते" इति ।। ०१.१५.३१ ।। नैति कौटिल्यः ।। ०१.१५.३२ ।। अनवस्था ह्येषा ।। ०१.१५.३३ ।। मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ।। ०१.१५.३४ ।। मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ।। ०१.१५.३५ ।। एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ।। ०१.१५.३६ ।। द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ।। ०१.१५.३७ ।। तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ।। ०१.१५.३८ ।। महा-दोषं उपपन्नं तु भवति ।। ०१.१५.३९ ।। ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।। ०१.१५.४० ।। देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ।। ०१.१५.४१ ।। कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ।। ०१.१५.४२ ।। तानेकैकशः पृच्छेत्समस्तांश्च ।। ०१.१५.४३ ।। हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ।। ०१.१५.४४ ।। अवाप्त-अर्थः कालं नातिक्रामयेत् ।। ०१.१५.४५ ।। न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ।। ०१.१५.४६ ।। "मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत" इति मानवाः ।। ०१.१५.४७ ।। "षोडश" इति बार्हस्पत्याः ।। ०१.१५.४८ ।। "विंशतिम्" इत्यौशनसाः ।। ०१.१५.४९ ।। यथा-सामर्थ्यं इति कौटिल्यः ।। ०१.१५.५० ।। ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ।। ०१.१५.५१ ।। अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ।। ०१.१५.५२ ।। आसन्नैः सह कर्माणि पश्येत् ।। ०१.१५.५३ ।। अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ।। ०१.१५.५४ ।। इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ।। ०१.१५.५५ ।। स तच्चक्षुः ।। ०१.१५.५६ ।। तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ।। ०१.१५.५७ ।। आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ।। ०१.१५.५८ ।। तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ।। ०१.१५.५९ ।। कुर्वतश्च ।। ०१.१५.६० ।। नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ।। ०१.१५.६०अ ब ।। गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ।। ०१.१५.६०च्द् ।। यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ।। ०१.१५.६१अ ब ।। एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ।। ०१.१५.६१च्द् ।।
✦ ✦ ✦
“All undertakings depend upon counsel; for these are the secret of counsellors. Counsel is…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.