Arthashastra. Book 1, Chapter 16: The mission of envoys. The original ambassador's code

Book 1 · Chapter 16

Concerning Discipline

The mission of envoys. The original ambassador's code

उद्वृत्त-मन्त्रो दूत-प्रणिधिः ।। ०१.१६.०१ ।। अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ।। ०१.१६.०२ ।। पाद-गुण-हीनः परिमित-अर्थः ।। ०१.१६.०३ ।। अर्ध-गुण-हीनः शासन-हरः ।। ०१.१६.०४ ।। सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ।। ०१.१६.०५ ।। शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ।। ०१.१६.०६ ।। अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ।। ०१.१६.०७ ।। अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ।। ०१.१६.०८ ।। दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ।। ०१.१६.०९ ।। पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ।। ०१.१६.१० ।। शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ।। ०१.१६.११ ।। परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ।। ०१.१६.१२ ।। तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ।। ०१.१६.१३ ।। तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ।। ०१.१६.१४ ।। तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ।। ०१.१६.१५ ।। परस्यएतद्वाक्यं ।। ०१.१६.१६ ।। एष दूत-धर्मः" इति ।। ०१.१६.१७ ।। वसेदविसृष्टः पूजया नौत्सिक्तः ।। ०१.१६.१८ ।। परेषु बलित्वं न मन्येत ।। ०१.१६.१९ ।। वाक्यं अनिष्टं सहेत ।। ०१.१६.२० ।। स्त्रियः पानं च वर्जयेत् ।। ०१.१६.२१ ।। एकः शयीत ।। ०१.१६.२२ ।। सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ।। ०१.१६.२३ ।। कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ।। ०१.१६.२४ ।। तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ।। ०१.१६.२५ ।। उपलब्धस्यौपजापं उपेयात् ।। ०१.१६.२६ ।। परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ।। ०१.१६.२७ ।। "सर्वं वेद भवान्" इति ब्रूयात् । कार्य-सिद्धि-करं वा ।। ०१.१६.२८ ।। कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ।। ०१.१६.२९ ।। ।। सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ।। ज्ञात्वा वसेदपसरेद्वा ।। ०१.१६.३० ।। प्रयोजनं इष्टं अवेक्षेत वा ।। ०१.१६.३१ ।। शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ।। ०१.१६.३२ ।। प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ।। ०१.१६.३३अ ब ।। उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ।। ०१.१६.३३च्द् ।। बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ।। ०१.१६.३४अ ब ।। समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ।। ०१.१६.३४च्द् ।। स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ।। ०१.१६.३५अ ब ।। प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ।। ०१.१६.३५च्द् ।।

✦ ✦ ✦

Messengers are the mouth pieces of kings, not only of thyself, but of all; hence messenger
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.