Arthashastra. Book 1, Chapter 17: Protect the heir from poison, plot, and appetite

Book 1 · Chapter 17

Concerning Discipline

Protect the heir from poison, plot, and appetite

रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ।। ०१.१७.०१ ।। दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ।। ०१.१७.०२ ।। "पुत्र-रक्षणं तु ।। ०१.१७.०३ ।। "जन्म-प्रभृति राज-पुत्रान्रक्षेत् ।। ०१.१७.०४ ।। कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ।। ०१.१७.०५ ।। तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ।। ०१.१७.०६ ।। "नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च" इति विशाल-अक्षः ।। ०१.१७.०७ ।। "तस्मादेक-स्थान-अवरोधः श्रेयान्" इति ।। ०१.१७.०८ ।। अहि-भयं एतद्" इति पाराशराः ।। ०१.१७.०९ ।। "कुमारो हि "विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ।। ०१.१७.१० ।। तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.११ ।। "औरभ्रं भयं एतद्" इति पिशुनः ।। ०१.१७.१२ ।। "प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ।। ०१.१७.१३ ।। तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.१४ ।। "वत्स-स्थानं एतद्" इति कौणपदन्तः ।। ०१.१७.१५ ।। "वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ।। ०१.१७.१६ ।। तस्मान्मातृ-बन्धुषु वासः श्रेयान्" इति ।। ०१.१७.१७ ।। "ध्वज-स्थानं एतद्" इति वात-व्याधिः ।। ०१.१७.१८ ।। "तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ।। ०१.१७.१९ ।। तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ।। ०१.१७.२० ।। सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति" इति ।। ०१.१७.२१ ।। जीवन्-मरणं एतदिति कौटिल्यः ।। ०१.१७.२२ ।। काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ।। ०१.१७.२३ ।। तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ।। ०१.१७.२४ ।। आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ।। ०१.१७.२५ ।। प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ।। ०१.१७.२६ ।। समर्थं तद्विदो विनयेयुः ।। ०१.१७.२७ ।। "सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्"पितरि विक्रम्य राज्यं गृहाण" इति ।। ०१.१७.२८ ।। तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ।। ०१.१७.२९ ।। महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ।। ०१.१७.३० ।। नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ।। ०१.१७.३१ ।। एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ।। ०१.१७.३२ ।। तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ।। ०१.१७.३३ ।। सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ।। ०१.१७.३४ ।। यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ।। ०१.१७.३५ ।। मद्य-कामं योग-पानेनौद्वेजयेयुः ।। ०१.१७.३६ ।। द्यूत-कामं कापटिकैरुद्वेजयेयुः ।। ०१.१७.३७ ।। मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ।। ०१.१७.३८ ।। पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ।। ०१.१७.३९ ।। विरागं वेदयेयुः ।। ०१.१७.४० ।। प्रियं एक-पुत्रं बध्नीयात् ।। ०१.१७.४१ ।। बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ।। ०१.१७.४२ ।। आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।। ०१.१७.४३ ।। बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ।। ०१.१७.४४ ।। शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ।। ०१.१७.४५ ।। उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ।। ०१.१७.४६ ।। अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ।। ०१.१७.४७ ।। स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ।। ०१.१७.४८ ।। पुत्रिका-पुत्रानुत्पादयेद्वा ।। ०१.१७.४९ ।। वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ।। ०१.१७.५० ।। न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ।। ०१.१७.५१ ।। बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ।। ०१.१७.५२अ ब ।। अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ।। ०१.१७.५२च्द् ।। कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ।। ०१.१७.५३अ ब ।। अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ।। ०१.१७.५३च्द् ।।

✦ ✦ ✦

A prince has three classes of enemies, and Kautilya rates them in reverse of how the princ
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.