Arthashastra. Book 1, Chapter 18: How to behave when you are the heir in disfavour
Book 1 · Chapter 18
Concerning Discipline
How to behave when you are the heir in disfavour
विनीतो राज-पुत्रः कृच्छ्र-वृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ।। ०१.१८.०१ ।। पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत् ।। ०१.१८.०२ ।। पुरुष-अधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत् ।। ०१.१८.०३ ।। अभिरूपं च कर्म-फलं औपायनिकं च लाभं पितुरुपनाययेत् ।। ०१.१८.०४ ।। तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ।। ०१.१८.०५ ।। बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ।। ०१.१८.०६ ।। तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ।। ०१.१८.०७ ।। एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ।। ०१.१८.०८ ।। पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ।। ०१.१८.०९ ।। पारग्रामिकं वा योगं आतिष्ठेत् ।। ०१.१८.१० ।। मातुः परिजन-उपग्रहेण वा चेष्टेत ।। ०१.१८.११ ।। कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-पाषण्डच्-छद्मभिर्वा नष्ट-रूपस्तद्-व्यञ्जन-सखश्-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्यां प्रहृत्य ब्रूयात् "अहं असौ कुमारः । सह-भोग्यं इदं राज्यम् । एको नार्हति भोक्तुम् । ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्त-वेतनेनौपस्थास्यामि" इति इत्यपरुद्ध-वृत्तं ।। ०१.१८.१२ ।। अपरुद्धं तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्यऽनयेयुः । माता वा प्रतिगृहीता ।। ०१.१८.१३ ।। त्यक्तं गूढ-पुरुषाः शस्त्र-रसाभ्यां हन्युः ।। ०१.१८.१४ ।। अत्यक्तं तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यऽनयेयुः ।। ०१.१८.१५ ।। उपस्थितं च राज्येन मद्-ऊर्ध्वं इति सान्त्वयेत् ।। ०१.१८.१६अ ब ।। एकस्थं अथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ।। ०१.१८.१६च्द् ।।
✦ ✦ ✦
“A prince under restraint. Sidelined, surveilled, or exiled. Has one task: do nothing that…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.