Arthashastra. Book 1, Chapter 19: The king's daily schedule
Book 1 · Chapter 19
Concerning Discipline
The king's daily schedule
राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ।। ०१.१९.०१ ।। प्रमाद्यन्तं अनुप्रमाद्यन्ति ।। ०१.१९.०२ ।। कर्माणि चास्य भक्षयन्ति ।। ०१.१९.०३ ।। द्विषद्भिश्चातिसंधीयते ।। ०१.१९.०४ ।। तस्मादुत्थानं आत्मनः कुर्वीत ।। ०१.१९.०५ ।। नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ।। ०१.१९.०६ ।। त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ।। ०१.१९.०७ ।। तैः पश्चिमा व्याख्याताः ।। ०१.१९.०८ ।। तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ।। ०१.१९.०९ ।। द्वितीये पौर-जानपदानां कार्याणि पश्येत् ।। ०१.१९.१० ।। तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ।। ०१.१९.११ ।। चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ।। ०१.१९.१२ ।। पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ।। ०१.१९.१३ ।। षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ।। ०१.१९.१४ ।। सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ।। ०१.१९.१५ ।। अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ।। ०१.१९.१६ ।। प्रतिष्ठितेअहनि संध्यां उपासीत ।। ०१.१९.१७ ।। प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ।। ०१.१९.१८ ।। द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ।। ०१.१९.१९ ।। तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ।। ०१.१९.२० ।। षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ।। ०१.१९.२१ ।। सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ।। ०१.१९.२२ ।। अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ।। ०१.१९.२३ ।। सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ।। ०१.१९.२४ ।। आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ।। ०१.१९.२५ ।। उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ।। ०१.१९.२६ ।। दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ।। ०१.१९.२७ ।। तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ।। ०१.१९.२८ ।। तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ।। ०१.१९.२९ ।। सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।। ०१.१९.३०अ ब ।। कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ।। ०१.१९.३०च्द् ।। अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ।। ०१.१९.३१अ ब ।। पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ।। ०१.१९.३१च्द् ।। तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।। ०१.१९.३२अ ब ।। माया-योगविदां चैव न स्वयं कोप-कारणात् ।। ०१.१९.३२च्द् ।। राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ।। ०१.१९.३३अ ब ।। दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ।। ०१.१९.३३च्द् ।। प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ।। ०१.१९.३४अ ब ।। नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ।। ०१.१९.३४च्द् ।। तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ।। ०१.१९.३५अ ब ।। अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ।। ०१.१९.३५च्द् ।। अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।। ०१.१९.३६अ ब ।। प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ।। ०१.१९.३६च्द् ।।
✦ ✦ ✦
“The day and night each shall be divided into eight parts; the king shall not be idle in an…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.