Arthashastra. Book 1, Chapter 20: The harem is the kingdom's most leak prone room
Book 1 · Chapter 20
Concerning Discipline
The harem is the kingdom's most leak prone room
वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।। कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।। अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।। मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।। जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ।। ०१.२०.०५ ।। मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ।। ०१.२०.०६ ।। शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ।। ०१.२०.०७ ।। क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ।। ०१.२०.०८ ।। इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ।। ०१.२०.०९ ।। पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ।। ०१.२०.१० ।। बहिः कन्या-कुमार-पुरं ।। ०१.२०.११ ।। पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ।। ०१.२०.१२ ।। कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ।। ०१.२०.१३ ।। अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ।। ०१.२०.१४ ।। देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ।। ०१.२०.१५ ।। लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ।। ०१.२०.१६ ।। तस्मादेतान्यास्पदानि परिहरेत् ।। ०१.२०.१७ ।। मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ।। ०१.२०.१८ ।। न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ।। ०१.२०.१९ ।। रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ।। ०१.२०.२० ।। अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ।। ०१.२०.२१ ।। स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ।। ०१.२०.२२अ ब ।। न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ।। ०१.२०.२२च्द् ।। सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ।। ०१.२०.२३अ ब ।। निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ।। ०१.२०.२३च्द् ।।
✦ ✦ ✦
“Kautilya treats the inner palace as the highest risk environment in the entire state. Not…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.