Arthashastra. Book 1, Chapter 21: The king's body is a layered security problem
Book 1 · Chapter 21
Concerning Discipline
The king's body is a layered security problem
शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ।। ०१.२१.०१ ।। पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ।। ०१.२१.०२ ।। अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ।। ०१.२१.०३ ।। गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ।। ०१.२१.०४ ।। तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ।। ०१.२१.०५ ।। अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ।। ०१.२१.०६ ।। अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ ।। व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब ।। द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क ।। रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड ।। शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए ।। कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् ।। आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् ।। लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् ।। विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ।। ०१.२१.०८ ।। तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ।। ०१.२१.०९ ।। भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।। ०१.२१.१० ।। पानं पानीयं चाउषधेन व्याख्यातं ।। ०१.२१.११ ।। कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ।। ०१.२१.१२ ।। स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ।। ०१.२१.१३ ।। आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ।। ०१.२१.१४ ।। एतेन परस्मादागतकं व्याख्यातं ।। ०१.२१.१५ ।। कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ।। ०१.२१.१६ ।। आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ।। ०१.२१.१७ ।। आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ।। ०१.२१.१८ ।। अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ।। ०१.२१.१९ ।। उदक-अन्ते सैन्यं आसीत ।। ०१.२१.२० ।। मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ।। ०१.२१.२१ ।। व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ।। ०१.२१.२२ ।। लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ।। ०१.२१.२३ ।। आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ।। ०१.२१.२४ ।। सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ।। ०१.२१.२५ ।। निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ।। ०१.२१.२६ ।। न पुरुष-सम्बाधं अवगाहेत ।। ०१.२१.२७ ।। यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ।। ०१.२१.२८ ।। यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ।। ०१.२१.२९अ ब ।। तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ।। ०१.२१.३०च्द् ।।
✦ ✦ ✦
“Personal safety in Kautilya is not paranoia, it is procedure. Food is tasted before it rea…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.