Arthashastra. Book 10, Chapter 1: The encampment. The geometry of a moving city
Book 10 · Chapter 1
Relating to War
The encampment. The geometry of a moving city
वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ।। १०.१.०१ ।। मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ।। १०.१.०२ ।। अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ।। १०.१.०३ ।। पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ।। १०.१.०४ ।। अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ।। १०.१.०५ ।। प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ।। १०.१.०६ ।। द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ।। १०.१.०७ ।। तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ।। १०.१.०८ ।। चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ।। १०.१.०९ ।। वणिजो रूप-आजीवाश्चानु-महा-पथं ।। १०.१.१० ।। बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ।। १०.१.११ ।। शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ।। १०.१.१२ ।। अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ।। १०.१.१३ ।। दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ।। १०.१.१४ ।। विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ।। १०.१.१५ ।। सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ।। १०.१.१६ ।। पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ।। १०.१.१७अ ब ।। यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ।। १०.१.१७च्द् ।।
✦ ✦ ✦
“On a site declared to be the best according to the science of buildings, the leader, the c…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.