Arthashastra. Book 10, Chapter 2: The march. Speed, food, position, and never on a starving stomach
Book 10 · Chapter 2
Relating to War
The march. Speed, food, position, and never on a starving stomach
ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ।। १०.२.०१ ।। तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ।। १०.२.०२ ।। अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ।। १०.२.०३ ।। पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ।। १०.२.०४ ।। सर्वतो वन-आजीवः प्रसारः ।। १०.२.०५ ।। स्व-देशादन्वायतिर्वीवधः ।। १०.२.०६ ।। मित्र-बलं आसारः ।। १०.२.०७ ।। कलत्र-स्थानं अपसारः ।। १०.२.०८ ।। पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ।। १०.२.०९ ।। पथि-द्वैधी-भावे स्वभूमितो यायात् ।। १०.२.१० ।। अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ।। १०.२.११ ।। योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ।। १०.२.१२ ।। आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ।। १०.२.१३ ।। हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ।। १०.२.१४ ।। तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ।। १०.२.१५ ।। अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ।। १०.२.१६ ।। दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ।। १०.२.१७ ।। एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ।। १०.२.१८ ।। तदाआत्मानो गूहयेत् ।। १०.२.१९ ।। पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ।। १०.२.२०अ ब ।। स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ।। १०.२.२०च्द् ।।
✦ ✦ ✦
“Having prepared a list of the villages and forests situated on the road with reference to…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.