Arthashastra. Book 10, Chapter 3: The night before. What a commander says when fear is louder than orders
Book 10 · Chapter 3
Relating to War
The night before. What a commander says when fear is louder than orders
बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ।। १०.३.०१ ।। विपर्यये कूट-युद्धं ।। १०.३.०२ ।। बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ।। १०.३.०३ ।। दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ।। १०.३.०४ ।। संहत-अनीकं हस्तिभिर्भेदयेत् ।। १०.३.०५ ।। पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ।। १०.३.०६ ।। पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ।। १०.३.०७ ।। पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ।। १०.३.०८ ।। ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ।। १०.३.०९ ।। यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ।। १०.३.१० ।। पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ।। १०.३.११ ।। पृष्ठतो विषमायां पुरस्तादभिहन्यात् ।। १०.३.१२ ।। पार्श्वतो विषमायां इतरतोअभिहन्यात् ।। १०.३.१३ ।। दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ।। १०.३.१४ ।। दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ।। १०.३.१५ ।। सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ।। १०.३.१६ ।। फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ।। १०.३.१७ ।। गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ।। १०.३.१८ ।। रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ।। १०.३.१९ ।। सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ।। १०.३.२० ।। अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ।। १०.३.२१ ।। शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ।। १०.३.२२ ।। प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ।। १०.३.२३ ।। धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ।। १०.३.२४ ।। पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ।। १०.३.२५ ।। संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ।। १०.३.२६ ।। संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ।। १०.३.२७ ।। वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ।। १०.३.२८ ।। अपिइह श्लोकौ भवतः ।। १०.३.२९ ।। "यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ।। १०.३.३०अ ब ।। क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ।। १०.३.३०च्द् ।। "नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ।। १०.३.३१अ ब ।। तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ।। १०.३.३१च्द् ।। मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ।। १०.३.३२ ।। कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १०.३.३३ ।। "श्वो युद्धम्" इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ।। १०.३.३४ ।। अथर्वभिश्च जुहुयात् ।। १०.३.३५ ।। विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ।। १०.३.३६ ।। ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ।। १०.३.३७ ।। शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ।। १०.३.३८ ।। पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ।। १०.३.३९ ।। हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ।। १०.३.४० ।। यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ।। १०.३.४१ ।। राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ।। १०.३.४२ ।। सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।। पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।। सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।। तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।। चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।। अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ।। १०.३.४८ ।। पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ।। १०.३.४९ ।। यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ।। १०.३.५० ।। समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ।। १०.३.५२ ।। समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ।। १०.३.५३ ।। विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ।। १०.३.५४ ।। सम-बलेन याचितः संदधीत ।। १०.३.५५ ।। हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ।। १०.३.५६ ।। पुनर्-आवर्तमानस्य निराशस्य च जीविते । ।। १०.३.५७अ ब ।। अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ।। १०.३.५७च्द् ।।
✦ ✦ ✦
“On the eve of battle the commander shall move among the troops, speak of past victories, n…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.