Arthashastra. Book 10, Chapter 5: Drums and banners. When the voice cannot reach, the signal must
Book 10 · Chapter 5
Relating to War
Drums and banners. When the voice cannot reach, the signal must
पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ।। १०.५.०१ ।। विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ।। १०.५.०२ ।। शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ।। १०.५.०३ ।। द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ।। १०.५.०४ ।। एवं यथा-सुखं असम्बाधं युध्येत ।। १०.५.०५ ।। पञ्च-अरत्नि धनुः ।। १०.५.०६ ।। तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ।। १०.५.०७ ।। पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ।। १०.५.०८ ।। अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ।। १०.५.०९ ।। पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ।। १०.५.१० ।। तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ।। १०.५.११ ।। त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ।। १०.५.१२ ।। पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ।। १०.५.१३ ।। एष सम-व्यूहः ।। १०.५.१४ ।। तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१५ ।। एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१६ ।। पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ।। १०.५.१७ ।। तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१८ ।। एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१९ ।। अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ।। १०.५.२० ।। रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ।। १०.५.२१ ।। एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ।। १०.५.२२ ।। तेन हस्तिनां अश्वानां आवापो व्याख्यातः ।। १०.५.२३ ।। यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ।। १०.५.२४ ।। दण्ड-बाहुल्यं आवापः ।। १०.५.२५ ।। पत्ति-बाहुल्यं प्रत्यापावः ।। १०.५.२६ ।। एक-अङ्ग-बाहुल्यं अन्वावापः ।। १०.५.२७ ।। दूष्य-बाहुल्यं अत्यावापः ।। १०.५.२८ ।। पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ।। १०.५.२९ ।। रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ।। १०.५.३० ।। व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ।। १०.५.३१ ।। हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ।। १०.५.३२ ।। विपरीतोअन्त-भेदी ।। १०.५.३३ ।। हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ।। १०.५.३४ ।। अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ।। १०.५.३५ ।। पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ।। १०.५.३६ ।। इति शुद्धाः ।। १०.५.३७ ।। पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ।। १०.५.३८ ।। इति द्व्य्-अङ्ग-बल-विभागः ।। १०.५.३९ ।। तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ।। १०.५.४० ।। दण्ड-सम्पत्सार-बलं पुंसां ।। १०.५.४१ ।। हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ।। १०.५.४२ ।। पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ।। १०.५.४३ ।। एवं सर्वं उपयोगं गमयेत् ।। १०.५.४४ ।। फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ।। १०.५.४५ ।। सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ।। १०.५.४६ ।। एवं एतत्सहिष्णु भवति ।। १०.५.४७ ।। व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ।। १०.५.४८ ।। यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ।। १०.५.४९ ।। यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ।। १०.५.५० ।। यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ।। १०.५.५१ ।। यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ।। १०.५.५२ ।। अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ।। १०.५.५३ ।। प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ।। १०.५.५४ ।। उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ।। १०.५.५५ ।। सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ।। १०.५.५६ ।। एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ।। १०.५.५७अ ब ।। विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ।। १०.५.५७च्द् ।। द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ।। १०.५.५८अ ब ।। भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ।। १०.५.५८च्द् ।।
✦ ✦ ✦
“In the noise of battle no voice carries far. Therefore drums, conches, trumpets, and banne…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.