Arthashastra. Book 11, Chapter 1: Why gifts to a few destroy a confederacy faster than gifts to all
Book 11 · Chapter 1
The Conduct of Corporations
Why gifts to a few destroy a confederacy faster than gifts to all
संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ।। ११.१.०१ ।। संघा हि संहतत्वादधृष्याः परेषां ।। ११.१.०२ ।। ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ।। ११.१.०३ ।। काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ।। ११.१.०४ ।। लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ।। ११.१.०५ ।। सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ।। ११.१.०६ ।। एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ।। ११.१.०७ ।। वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ।। ११.१.०८ ।। कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ।। ११.१.०९ ।। विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ।। ११.१.१० ।। हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ।। ११.१.११ ।। अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ।। ११.१.१२ ।। व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ।। ११.१.१३ ।। विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ।। ११.१.१४ ।। सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ।। ११.१.१५ ।। भिन्नानपवाहयेद्वा ।। ११.१.१६ ।। भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ।। ११.१.१७ ।। एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ।। ११.१.१८ ।। समवाये चएषां अत्ययं स्थापयेत् ।। ११.१.१९ ।। राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ।। ११.१.२० ।। कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ।। ११.१.२१ ।। संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ।। ११.१.२२ ।। प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ।। ११.१.२३ ।। विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ।। ११.१.२४ ।। चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ।। ११.१.२५ ।। दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ।। ११.१.२६ ।। अथावस्कन्दं दद्यात् ।। ११.१.२७ ।। संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ।। ११.१.२८ ।। तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ।। ११.१.२९ ।। एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ।। ११.१.३० ।। संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ।। ११.१.३१ ।। प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ।। ११.१.३२ ।। अवाप्त-अर्थस्तं अपि प्रवासयेत् ।। ११.१.३३ ।। बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ।। ११.१.३४ ।। जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ।। ११.१.३५ ।। कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ।। ११.१.३६ ।। विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ।। ११.१.३७ ।। प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ।। ११.१.३८ ।। ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ।। ११.१.३९ ।। जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ।। ११.१.४० ।। तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ।। ११.१.४१ ।। आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ।। ११.१.४२ ।। प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ।। ११.१.४३ ।। सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ।। ११.१.४४ ।। गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ।। ११.१.४५ ।। तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ।। ११.१.४६ ।। अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ।। ११.१.४७ ।। ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ।। ११.१.४८ ।। कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ।। ११.१.४९ ।। अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ।। ११.१.५० ।। लब्धायां सिद्धः कलहः ।। ११.१.५१ ।। भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ।। ११.१.५२ ।। एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।। ११.१.५३ ।। संघेष्वेवं एक-राजो वर्तेत ।। ११.१.५४ ।। संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ।। ११.१.५५ ।। संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ।। ११.१.५६अ ब ।। दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ।। ११.१.५६च्द् ।।
✦ ✦ ✦
“When the king honours the whole sangha equally, he gains its goodwill but loses no part of…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.