Arthashastra. Book 12, Chapter 2: Battle of intrigue. How the weaker side speaks to the stronger
Book 12 · Chapter 2
Concerning a Powerful Enemy
Battle of intrigue. How the weaker side speaks to the stronger
स चेत्संधौ नावतिष्ठेत । ब्रूयादेनं "इमे शत्रु-षड्-वर्ग-वशगा राजानो विनष्टाः । तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुं ।। १२.२.०१ ।। धर्मं अर्थं चावेक्षस्व ।। १२.२.०२ ।। मित्र-मुखा ह्यमित्रास्ते ये त्वा साहसं अधर्मं अर्थ-अतिक्रमं च ग्राहयन्ति ।। १२.२.०३ ।। शूरैस्त्यक्त-आत्मभिः सह योद्धुं साहसम् । जन-क्षयं उभयतः कर्तुं अधर्मः । दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थ-अतिक्रमः ।। १२.२.०४ ।। मित्रवांश्च स राजा । भूयश्चएतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोअभियास्यन्ति ।। १२.२.०५ ।। न च मध्यम-उदासीनयोर्मण्डलस्य वा परित्यक्तः । भवांस्तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते "भूयः क्षय-व्ययाभ्यां युज्यताम् । मित्राच्च भिद्यताम् । अथएनं परित्यक्त-मूलं सुखेनौच्छेत्स्यामः" इति ।। १२.२.०६ ।। स भवान्नार्हति मित्र-मुखानां अमित्राणां श्रोतुम् । मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुम् । प्राण-संशयं अनर्थं चौपगन्तुम्" इति यच्छेत् ।। १२.२.०७ ।। तथाअपि प्रतिष्ठमानस्य प्रकृति-कोपं अस्य कारयेद्यथा संघ-वृत्ते व्याख्यातं योग-वामने च ।। १२.२.०८ ।। तीक्ष्ण-रसद-प्रयोगं च ।। १२.२.०९ ।। यदुक्तं आत्म-रक्षितके रक्ष्यं तत्र तीक्ष्णान्रसदांश्च प्रयुञ्जीत ।। १२.२.१० ।। बन्धकी-पोषकाः परम-रूप-यौवनाभिः स्त्रीभिः सेना-मुख्यानुन्मादयेयुः ।। १२.२.११ ।। बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहानुत्पादयेयुः ।। १२.२.१२ ।। कलहे पराजित-पक्षं परत्र-अपगमने यात्रा-साहाय्य-दाने वा भर्तुर्योजयेयुः ।। १२.२.१३ ।। काम-वशान्वा सिद्ध-व्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसंधानाय मुख्येषु रसं दापयेयुः ।। १२.२.१४ ।। वैदेहक-व्यञ्जने वा राज-महिष्याः सुभगायाः प्रेष्यां आसन्नां काम-निमित्तं अर्थेनाभिवृष्य परित्यजेत् ।। १२.२.१५ ।। तस्यएव परिचारक-व्यञ्जन-उपदिष्टः सिद्ध-व्यञ्जनः सांवदनिकीं ओषधीं दद्यात्"वैदेहक-शरीरेअवघातव्या" इति ।। १२.२.१६ ।। सिद्धे सुभगाया अप्येनं योगं उपदिशेत्"राज-शरीरेअवधातव्या" इति ।। १२.२.१७ ।। ततो रसेनातिसंदध्यात् ।। १२.२.१८ ।। कार्तान्तिक-व्यञ्जनो वा महा-मात्रं "राज-लक्षण-सम्पन्नम्" क्रम-अभिनीतं ब्रूयात् ।। १२.२.१९ ।। भार्यां अस्य भिक्षुकी "राज-पत्नी राज-प्रसविनी वा भविष्यसि" इति ।। १२.२.२० ।। भार्या-व्यञ्जना वा महा-मात्रं ब्रूयात्"राजा किल मां अवरोधयिष्यति । तवान्तिकाय पत्त्र-लेख्यं आभरणं चैदं परिव्राजिकयाआहृतम्" इति ।। १२.२.२१ ।। सूद-आरालिक-व्यञ्जनो वा रस-प्रयोग-अर्थं राज-वचनं अर्थं चास्य लोभनीयं अभिनयेत् ।। १२.२.२२ ।। तदस्य वैदेहक-व्यञ्जनः प्रतिसंदध्यात् । कार्य-सिद्धिं च ब्रूयात् ।। १२.२.२३ ।। एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक-एकं अस्य महा-मात्रं विक्रमायापगमनाय वा योजयेत् इति ।। १२.२.२४ ।। दुर्गेषु चास्य शून्य-पाल-आसन्नाः सत्त्रिणः पौर-जानपदेषु मैत्री-निमित्तं आवेदयेयुः "शून्य-पालेनौक्ता योधाश्चाधिकरणस्थाश्च "कृच्छ्र-गतो राजा जीवन्नागमिष्यति । न वा । प्रसह्य वित्तं आर्जयध्वम् । अमित्रांश्च हत" इति ।। १२.२.२५ ।। बहुली-भूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः । मुख्यांश्चाभिहन्युः "एवं क्रियन्ते ये शून्य-पालस्य न शुश्रूषन्ते" इति ।। १२.२.२६ ।। शून्य-पाल-स्थानेषु च सशोणितानि शस्त्र-वित्त-बन्धनान्युत्सृजेयुः ।। १२.२.२७ ।। ततः सत्त्रिणः "शून्य-पालो घातयति विलोपयति च" इत्यावेदयेयुः ।। १२.२.२८ ।। एवं जानपदान्समाहर्तुर्भेदयेयुः ।। १२.२.२९ ।। समाहर्तृ-पुरुषांस्तु ग्राम-मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन-पदं अधर्मेण बाधन्ते" इति ।। १२.२.३० ।। समुत्पन्ने दोषे शून्य-पालं समाहर्तारं वा प्रकृति-कोपेन घातयेयुः ।। १२.२.३१ ।। तत्-कुलीनं अपरुद्धं वा प्रतिपादयेयुः ।। १२.२.३२ ।। अन्तः-पुर-पुर-द्वारं द्रव्य-धान्य-परिग्रहान् । ।। १२.२.३३अ ब ।। दहेयुस्तांश्च हन्युर्वा ब्रूयुरस्यऽर्त-वादिनः ।। १२.२.३३च्द् ।।
✦ ✦ ✦
“If the enemy does not keep peace, he should be told: "These kings perished by surrendering…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.