Arthashastra. Book 12, Chapter 3: Slay the counsellor, spare the king. Disabling the brain of the stronger
Book 12 · Chapter 3
Concerning a Powerful Enemy
Slay the counsellor, spare the king. Disabling the brain of the stronger
राज्ञो राज-वल्लभानां चऽसन्नाः सत्त्रिणः पत्त्य्-अश्व-रथ-द्विप-मुख्यानां "राजा क्रुद्धः" इति सुहृद्-विश्वासेन मित्र-स्थानीयेषु कथयेयुः ।। १२.३.०१ ।। बहुली-भूते तीक्ष्णाः कृत-रात्रि-चार-प्रतीकारा गृहेषु "स्वामि-वचनेनऽगम्यताम्" इति ब्रूयुः ।। १२.३.०२ ।। तान्निर्गच्छत एवाभिहन्युः । "स्वामि-संदेशः" इति चऽसन्नान्ब्रूयुः ।। १२.३.०३ ।। ये चाप्रवासितास्तान्सत्त्रिणो ब्रूयुः "एतत्तद्यदस्माभिः कथितम् । जीवितु-कामेनापक्रान्तव्यम्" इति ।। १२.३.०४ ।। येभ्यश्च राजा याचितो न ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । मया प्रत्याख्याताः शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०५ ।। ततः पूर्ववदाचरेत् ।। १२.३.०६ ।। येभ्यश्च राजा याचितो ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । तेभ्यो मया सोअर्थो विश्वास-अर्थं दत्तः । शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०७ ।। ततः पूर्ववदाचरेत् ।। १२.३.०८ ।। ये चएनं याच्यं अर्थं न याचन्ते तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "याच्यं अर्थं असौ चासौ च मा न याचते । किं अन्यत्स्व-दोष-शङ्कितत्वात् । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०९ ।। ततः पूर्ववदाचरेत् ।। १२.३.१० ।। एतेन सर्वः कृत्य-पक्षो व्याख्यातः ।। १२.३.११ ।। प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत्"असौ चासौ च ते महा-मात्रः शत्रु-पुरुषैः सम्भाषते" इति ।। १२.३.१२ ।। प्रतिपन्ने दूष्यानस्य शासन-हरान्दर्शयेत्"एतत्तत्" इति ।। १२.३.१३ ।। सेना-मुख्य-प्रकृति-पुरुषान्वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेदपवाहयेद्वा ।। १२.३.१४ ।। योअस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणाउपजापयेत्"आत्म-सम्पन्नतरस्त्वं पुत्रः । तथाअप्यन्तर्-हितः । तत्-किं उपेक्षसे विक्रम्य गृहाण । पुरा त्वा युव-राजो विनाशयति" इति ।। १२.३.१५ ।। तत्-कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्"अन्तर्-बलं प्रत्यन्त-स्कन्धं अन्तं वाअस्य प्रमृद्नीहि" इति ।। १२.३.१६ ।। आटविकानर्थ-मानाभ्यां उपगृह्य राज्यं अस्य घातयेत् ।। १२.३.१७ ।। पार्ष्णि-ग्राहं वाअस्य ब्रूयात्"एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति । पार्ष्णिं अस्य गृहाण । त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि" इति ।। १२.३.१८ ।। मित्राणि वाअस्य ब्रूयात्"अहं वः सेतुः । मयि विभिन्ने सर्वानेष वो राजा प्लावयिष्यति । सम्भूय वाअस्य यात्रां विहनाम" इति ।। १२.३.१९ ।। तत्-संहतानां असंहतानां च प्रेषयेत्"एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति । बुध्यध्वम् । अहं वः श्रेयानभ्युपपत्तुम्" इति ।। १२.३.२० ।। मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः । ।। १२.३.२१अ ब ।। यथाआसन्नस्य मोक्ष-अर्थं सर्व-स्वेन तद्-अर्पणं ।। १२.३.२१च्द् ।।
✦ ✦ ✦
“Where the conqueror is strong, his strength is not in his arm but in the wisdom of his min…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.