Arthashastra. Book 12, Chapter 4: Exhaust the conqueror by stretching his lines
Book 12 · Chapter 4
Concerning a Powerful Enemy
Exhaust the conqueror by stretching his lines
ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः । ग्रामेसु गृहपतिक-व्यञ्जनाः । जन-पद-संधिषु गो-रक्षक-तापस-व्यञ्जनाः । ते सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां पण्य-आगार-पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ।। १२.४.०१ ।। आगतांश्चएषां दुर्गे गूढ-पुरुषानर्थ-मानाभ्यां अभिसत्कृत्य प्रकृतिच्-छिद्राणि प्रदर्शयेयुः ।। १२.४.०२ ।। तेषु तैः सह प्रहरेयुः ।। १२.४.०३ ।। स्कन्ध-आवारे वाअस्य शौण्डिक-व्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाअवस्कन्द-काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ।। १२.४.०४ ।। शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकं अहः । उत्तरं रस्-सिद्धं प्रयच्छेत् ।। १२.४.०५ ।। शुद्धं वा मद्यं दण्ड-मुख्येभ्यः प्रदाय मद-काले रस-सिद्धं प्रयच्छेत् ।। १२.४.०६ ।। दण्ड-मुख्य-व्यञ्जनो वा पुत्रं अभित्यक्तं इति समानं ।। १२.४.०७ ।। पाक्व-मांसिक-औदनिक-औण्डिक-आपूपिक-व्यञ्जना वा पण्य-विशेषं अवघोषयित्वा परस्पर-संघर्षेण कालिकं समर्घतरं इति वा परानाहूय रसेन स्व-पण्यान्यपचारयेयुः ।। १२.४.०८ ।। सुरा-क्षीर-दधि-सर्पिस्-तैलानि वा तद्-व्यवहर्तृ-हस्तेषु गृहीता स्त्रियो बालाश्च रस-युक्तेषु स्व-भाजनेषु परिकिरेयुः ।। १२.४.०९ ।। "अनेनार्घेण । विशिष्टं वा भूयो दीयताम्" इति तत्रएवावाकिरेयुः ।। १२.४.१० ।। एतान्येव वैदेहक-व्यञ्जनाः । पण्य-विरेयेणऽहर्तारो वा ।। १२.४.११ ।। हस्त्य्-अश्वानां विधा-यवसेषु रसं आसन्ना दद्युः ।। १२.४.१२ ।। कर्म-कर-व्यञ्जना वा रस-अक्तं यवसं उदकं वा विक्रीणीरन् ।। १२.४.१३ ।। चिर-संसृष्टा वा गो-वाणिजका गवां अज-अवीनां वा यूथान्यवस्कन्द-कालेषु परेषां मोह-स्थानेषु प्रमुञ्चेयुः । अश्व-खर-उष्ट्रमहिष-आदीनां दुष्टांश्च ।। १२.४.१४ ।। तद्-व्यञ्जना वा चुच्छुन्दरी-शोणित-अक्त-अक्षान् ।। १२.४.१५ ।। लुब्धक-व्यञ्जना वा व्याल-मृगान्पञ्जरेभ्यः प्रमुञ्चेयुः । सर्प-ग्राहा वा सर्पानुग्र-विषान् । हस्ति-जीविनो वा हस्तिनः ।। १२.४.१६ ।। अग्नि-जीविनो वाअग्निं अवसृजेयुः ।। १२.४.१७ ।। गूढ-पुरुषा वा विमुखान्पत्त्य्-अश्व-रथ-द्विप-मुख्यानभिहन्युः । आदीपयेयुर्वा मुख्य-आवासान् ।। १२.४.१८ ।। दूष्य-अमित्र-आटविक-व्यञ्जनाः प्रणिहिताः पृष्ठ-अभिघातं अवस्कन्द-प्रतिग्रहं वा कुर्युः ।। १२.४.१९ ।। वन-गूढा वा प्रत्यन्त-स्कन्धं उपनिष्कृष्याभिहन्युः । एक-अयने वीवध-आसार-प्रसारान्वा ।। १२.४.२० ।। ससंकेतं वा रात्रि-युद्धे भूरि-तूर्यं आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो । लब्धं राज्यम्" इति ।। १२.४.२१ ।। राज-आवासं अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ।। १२.४.२२ ।। सर्वतो वा प्रयातं एन(?एव?) म्लेच्छ-आटविक-दण्ट-चारिणः सत्त्र-अपाश्रयाः स्तम्भ-वाट-अपाश्रया वा हन्युः ।। १२.४.२३ ।। लुब्धक-व्यञ्जना वाअवस्कन्द-संकुलेषु गूढ-युद्ध-हेतुभिरभिहन्युः ।। १२.४.२४ ।। एक-अयने वा शैल-स्तम्भ-वाट-खञ्जन-अन्तर्-उदके वा स्व-भूमि-बलेनाभिहन्युः ।। १२.४.२५ ।। नदी-सरस्-तटाक-सेतु-बन्ध-भेद-वेगेन वा प्लावयेयुः ।। १२.४.२६ ।। धान्वन-वन-दुर्ग-निम्न-दुर्गस्थं वा योग-अग्नि-धूमाभ्यां नाशयेयुः ।। १२.४.२७ ।। संकट-गतं अग्निना । धान्वन-गतं धूमेन । निधान-गतं रसेन । तोय-अवगाढं दुष्ट-ग्राहैरुदक-चरणैर्वा तीक्ष्णाः साधयेयुः । आदीप्त-आवासान्निष्पतन्तं वा ।। १२.४.२८ ।। योग-वामन-योगाभ्यां योगेनान्यतमेन वा । ।। १२.४.२९अ ब ।। अमित्रं अतिसंदध्यात्सक्तं उक्तासु भूमिषु ।। १२.४.२९च्द् ।।
✦ ✦ ✦
“When the conqueror's army marches into the weaker king's country, let the weaker king empt…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.