Arthashastra. Book 12, Chapter 5: Propaganda inside the conqueror's country. Shake his subjects' belief

Book 12 · Chapter 5

Concerning a Powerful Enemy

Propaganda inside the conqueror's country. Shake his subjects' belief

दैव-तेज्यायाम्(देवता-इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजा-आगम-स्थानानि भक्तितः ।। १२.५.०१ ।। तत्रास्य योगं उब्जयेत् ।। १२.५.०२ ।। देवता-गृह-प्रविष्टस्यौपरि यन्त्र-मोक्षणेन गूढ-भित्तिं शिलां वा पातयेत् ।। १२.५.०३ ।। शिला-शस्त्र-वर्षं उत्तम-आगारात् । कपाटं अवपातितं वा । भित्ति-प्रणिहितं एक-देश-बद्धं वा परिघं मोक्षयेत् ।। १२.५.०४ ।। देवता-देह-ध्वज-प्रहरणानि वाअस्यौपरिष्टात्पातयेत् ।। १२.५.०५ ।। स्थान-आसन-गमन-भूमिषु वाअस्य गो-मय-प्रदेहेन गन्ध-उदक-प्रसेकेन वा रसं अतिचारयेत् । पुष्प-चूर्ण-उपहारेण वा ।। १२.५.०६ ।। गन्ध-प्रतिच्छन्नं वाअस्य तीक्ष्णं धूमं अतिनयेत् ।। १२.५.०७ ।। शूलकूपं अवपातनं वा शयन-आसनस्याधस्ताद्यन्त्र-बद्ध-तलं एनं कील-मोक्षणेन प्रवेशयेत् ।। १२.५.०८ ।। प्रत्यासन्ने वाअमित्रे जन-पदाज्जनं अवरोध-क्षमं अतिनयेत् ।। १२.५.०९ ।। दुर्गाच्चानवरोध-क्षमं अपनयेत् । प्रत्यादेयं अरि-विषयं वा प्रेषयेत् ।। १२.५.१० ।। जन-पदं चएकस्थं शैल-वन-नदी-दुर्गेष्वटवी-व्यवहितेषु वा पुत्र-भ्रातृ-परिगृहीतं स्थापयेत् ।। १२.५.११ ।। उपरोध-हेतवो दण्ड-उपनत-वृत्ते व्याख्याताः ।। १२.५.१२ ।। तृण-काष्ठं आ-योजनाद्दाहयेत् ।। १२.५.१३ ।। उदकानि च दूषयेत् । अवस्रावयेच्च ।। १२.५.१४ ।। कूप-कूट-अवपात-कण्टकिनीश्च बहिरुब्जयेत् ।। १२.५.१५ ।। सुरुङ्गां अमित्र-स्थाने बहु-मुखीं कृत्वा निचय-मुख्यानभिहारयेत् । अमित्रं वा ।। १२.५.१६ ।। पर-प्रयुक्तायां वा सुरुङ्गायां परिखां उदक-अन्तिकीं खानयेत् । कूप-शालां अनुसालं वा ।। १२.५.१७ ।। तोय-कुम्भान्कांस्य-भाण्डानि वा शङ्का-स्थानेषु स्थापयेत्खात-अभिज्ञान-अर्थं ।। १२.५.१८ ।। ज्ञाते सुरुङ्गा-पथे प्रतिसुरुङ्गां कारयेत् ।। १२.५.१९ ।। मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत् ।। १२.५.२० ।। प्रतिविहित-दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमां अस्य दिशं गच्छेत् । यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः । यतो वा गतोअस्य मित्रैर्वियोगं कुर्यात्पार्ष्णिं वा गृह्णीयात्राज्यं वाअस्य हारयेत्वीवध-आसार-प्रसारान्वा वारयेत् । यतो वा शक्नुयादाक्षिकवदपक्षेपेणास्य प्रहर्तुम् । यतो वा स्वं राज्यं त्रायेत मूलस्यौपचयं वा कुर्यात् ।। १२.५.२१ ।। यतः संधिं अभिप्रेतं लभेत ततो वा गच्छेत् ।। १२.५.२२ ।। सह-प्रस्थायिनो वाअस्य प्रेषयेयुः "अयं ते शत्रुरस्माकं हस्त-गतः । पण्यं विप्रकारं वाअपदिश्य हिरण्यं अन्तः-सार-बलं च प्रेषय यस्यएनं अर्पयेम बद्धं प्रवासितं वा" इति ।। १२.५.२३ ।। प्रतिपन्ने हिरण्यं सार-बलं चऽददीत ।। १२.५.२४ ।। अन्त-पालो वा दुर्ग-सम्प्रदाने बल-एक-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२५ ।। जन-पदं एकस्थं वा घातयितुं अमित्र-अनीकं आवाहयेत् ।। १२.५.२६ ।। तदवरुद्ध-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२७ ।। मित्र-व्यञ्जनो वा बाह्यस्य प्रेषयेत्"क्षीणं अस्मिन्दुर्गे धान्यं स्नेहाः क्षारो लवणं वा । तदमुष्मिन्देशे काले च प्रवेक्ष्यति । तदुपगृहाण" इति ।। १२.५.२८ ।। ततो रस-विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य-अमित्र-आटविकाः प्रवेशयेयुः । अन्ये वाअभित्यक्ताः ।। १२.५.२९ ।। तेन सर्व-भाण्ड-वीवध-ग्रहणं व्याख्यातं ।। १२.५.३० ।। संधिं वा कृत्वा हिरण्य-एक-देशं अस्मै दद्यात् । विलम्बमानः शेषं ।। १२.५.३१ ।। ततो रक्षा-विधानान्यवस्रावयेत् ।। १२.५.३२ ।। अग्नि-रस-शस्त्रैर्वा प्रहरेत् ।। १२.५.३३ ।। हिरण्य-प्रतिग्राहिणो वाअस्य वल्लभाननुगृह्णीयात् ।। १२.५.३४ ।। परिक्षीणो वाअस्मै दुर्गं दत्त्वा निर्गच्छेत् ।। १२.५.३५ ।। सुरुङ्गया कुक्षि-प्रदरेण वा प्राकार-भेदेन निर्गच्छेत् ।। १२.५.३६ ।। रात्राववस्कन्दं दत्त्वा सिद्धस्तिष्ठेत् । असिद्धः पार्श्वेनापगच्छेत् ।। १२.५.३७ ।। पाषण्डच्-छद्मना मन्द-परिवारो निर्गच्छेत् ।। १२.५.३८ ।। प्रेत-व्यञ्जनो वा गूढैर्निह्रियेत ।। १२.५.३९ ।। स्त्री-वेष-धारी वा प्रेतं अनुगच्छेत् ।। १२.५.४० ।। दैवत-उपहार-श्राद्ध-प्रहवणेषु वा रस-विद्धं अन्न-पानं अवसृज्य ।। १२.५.४१ ।। कृत-उपजापो दूष्य-व्यञ्जनैर्निष्पत्य गूढ-सैन्योअभिहन्यात् ।। १२.५.४२ ।। एवं गृहीत-दुर्गो वा प्राश्य-प्राशं चैत्यं उपस्थाप्य दैवत-प्रतिमाच्-छिद्रं प्रविश्यऽसीत । गूढ-भित्तिं वा । दैवत-प्रतिमा-युक्तं वा भूमि-गृहं ।। १२.५.४३ ।। विस्मृते सुरुङ्गया रात्रौ राज-आवासं अनुप्रविश्य सुप्तं अमित्रं हन्यात् ।। १२.५.४४ ।। यन्त्र-विश्लेषणं वा विश्लेष्याधस्तादवपातयेत् ।। १२.५.४५ ।। रस-अग्नि-योगेनावलिप्तं गृहं जतु-गृहं वाअधिशयानं अमित्रं आदीपयेत् ।। १२.५.४६ ।। प्रमद-वन-विहाराणां अन्यतमे वा विहार-स्थाने प्रमत्तं भूमि-गृह-सुरुङ्गा-गूढ-भित्ति-प्रविष्टास्तीक्ष्णा हन्युः । गूढ-प्रणिहिता वा रसेन ।। १२.५.४७ ।। स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प-रस-अग्नि-धूमानुपरि मुञ्चेयुः ।। १२.५.४८ ।। प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेअन्तः-पुर-गते गूढ-संचारः प्रयुञ्जीत ।। १२.५.४९ ।। ततो गूढं एवापगच्छेत् । स्वजन-संज्ञां च प्ररूपयेत् ।। १२.५.५० ।। द्वाह्स्थान्वर्षधरांश्चान्यान्निगूढ-उपहितान्परे । ।। १२.४.५१अ ब ।। तूर्य-संज्ञाभिराहूय द्विषत्-शेषाणि घातयेत् ।। १२.४.५१च्द् ।।

✦ ✦ ✦

While the conqueror's army is in your land, let your secret agents return to his land disg
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.