Arthashastra. Book 13, Chapter 1: Sowing dissent inside the walls before raising a single ladder
Book 13 · Chapter 1
Strategic Means to Capture a Fortress
Sowing dissent inside the walls before raising a single ladder
विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १३.१.०१ ।। सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ।। १३.१.०२ ।। दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ।। १३.१.०३ ।। तेन रात्रि-गणश्चरति ।। १३.१.०४ ।। इत्युदक-चरणानि ।। १३.१.०५ ।। तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ।। १३.१.०६ ।। तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ।। १३.१.०७ ।। परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ।। १३.१.०८ ।। दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ।। १३.१.०९ ।। सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ।। १३.१.१० ।। परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ।। १३.१.११ ।। तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ।। १३.१.१२ ।। तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ।। १३.१.१३ ।। तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ।। १३.१.१४ ।। भूयश्च वक्ष्यामः ।। १३.१.१५ ।। साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ।। १३.१.१६ ।। प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ।। १३.१.१७ ।। द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ।। १३.१.१८ ।। अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ।। १३.१.१९ ।। दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ।। १३.१.२० ।। तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ।। १३.१.२१अ ब ।। साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ।। १३.१.२१च्द् ।।
✦ ✦ ✦
“Before the army arrives, the conqueror should send agents in the guise of merchants, ascet…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.