Arthashastra. Book 13, Chapter 2: Who to approach first inside the enemy camp. The dissatisfied, not the loyal

Book 13 · Chapter 2

Strategic Means to Capture a Fortress

Who to approach first inside the enemy camp. The dissatisfied, not the loyal

मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ।। १३.२.०१ ।। शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ।। १३.२.०२ ।। समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ।। १३.२.०३ ।। प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ।। १३.२.०४ ।। वसन्तं अवस्कन्देत ।। १३.२.०५ ।। मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ।। १३.२.०६ ।। ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ।। १३.२.०७ ।। स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ।। १३.२.०८ ।। ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ।। १३.२.०९ ।। प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ।। १३.२.१० ।। स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ।। १३.२.११ ।। तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ।। १३.२.१२ ।। सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ।। १३.२.१३ ।। तं राजाइति समानं ।। १३.२.१४ ।। सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ।। १३.२.१५ ।। जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ।। १३.२.१६ ।। तं राजाइति समानं ।। १३.२.१७ ।। जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ।। १३.२.१८ ।। प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ।। १३.२.१९ ।। अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ।। १३.२.२० ।। नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ।। १३.२.२१ ।। तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ।। १३.२.२२ ।। मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ।। १३.२.२३ ।। ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ।। १३.२.२४ ।। चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ।। १३.२.२५ ।। तदन्ये ख्यापयेयुः ।। १३.२.२६ ।। दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ।। १३.२.२७ ।। तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ।। १३.२.२८ ।। संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ।। १३.२.२९ ।। ततो रक्षो-रूपी मनुष्यकं याचेत ।। १३.२.३० ।। यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ।। १३.२.३१ ।। तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ।। १३.२.३२ ।। ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ।। १३.२.३३ ।। प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।। १३.२.३४ ।। ततः समानं ।। १३.२.३५ ।। एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ।। १३.२.३६ ।। ततः प्रयोजयेद्योगान् ।। १३.२.३७ ।। योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। १३.२.३८ ।। हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ।। १३.२.३९ ।। प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ।। १३.२.४० ।। तेन मृगया-कामो व्याख्यातः ।। १३.२.४१ ।। द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ।। १३.२.४२ ।। प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ।। १३.२.४३ ।। सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ।। १३.२.४४ ।। येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ।। १३.२.४५अ ब ।। यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ।। काक्१३.२.४५च्द् ।। धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ।। १३.२.४६अ ब ।। सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ।। १३.२.४६च्द् ।। प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ।। १३.२.४७अ ब ।। यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ।। १३.२.४७च्द् ।। विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ।। १३.२.४८अ ब ।। वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ।। १३.२.४८च्द् ।। मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ।। १३.२.४९अ ब ।। प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ।। १३.२.४९च्द् ।। यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ।। १३.२.५०अ ब ।। तथैव चापगच्छेयुरित्युक्तं योग-वामनं ।। १३.२.५०च्द् ।।

✦ ✦ ✦

Among the officers of the besieged king, the agent should mark four kinds and approach the
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.