Arthashastra. Book 13, Chapter 3: Cutting the fort's grain, water, and resolve. Three sieges in one

Book 13 · Chapter 3

Strategic Means to Capture a Fortress

Cutting the fort's grain, water, and resolve. Three sieges in one

श्रेणी-मुख्यं आप्तं निष्पातयेत् ।। १३.३.०१ ।। स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ।। १३.३.०२ ।। कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ।। १३.३.०३ ।। जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ।। १३.३.०४ ।। विश्वासं उपगतः स्वामिनः प्रेषयेत् ।। १३.३.०५ ।। ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ।। १३.३.०६ ।। एतेनामात्य-अटविका व्याख्याताः ।। १३.३.०७ ।। शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ।। १३.३.०८ ।। ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ।। १३.३.०९ ।। स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ।। १३.३.१० ।। अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।। स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।। आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।। अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।। दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।। कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ।। १३.३.१६ ।। ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ।। १३.३.१७ ।। प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ।। १३.३.१८ ।। अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ।। १३.३.१९ ।। अविषह्यं उपांशु-दण्डेन वा घातयेत् ।। १३.३.२० ।। स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ।। १३.३.२१ ।। दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ।। १३.३.२२ ।। अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ।। १३.३.२३ ।। वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ।। १३.३.२४ ।। शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ।। १३.३.२५ ।। ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ।। १३.३.२६ ।। शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ।। १३.३.२७ ।। ततो मित्र-गतं अतिसंदध्यात् ।। १३.३.२८ ।। कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ।। १३.३.२९ ।। ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.३.३० ।। मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ।। १३.३.३१ ।। दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ।। १३.३.३२ ।। तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ।। १३.३.३३ ।। ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ।। १३.३.३४ ।। तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ।। १३.३.३५ ।। दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ।। १३.३.३६ ।। ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ।। १३.३.३७ ।। भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ।। १३.३.३८ ।। अभित्यक्त-शासनैः प्रतिसमानयेयुः ।। १३.३.३९ ।। लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ।। १३.३.४० ।। तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ।। १३.३.४१ ।। पूर्व-प्रणिहिता वा द्वाराणि दद्युः ।। १३.३.४२ ।। तैः सह प्रहरेयुः ।। १३.३.४३ ।। कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ।। १३.३.४४ ।। तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ।। १३.३.४५ ।। ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ।। १३.३.४६ ।। प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ।। १३.३.४७ ।। सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ।। १३.३.४८ ।। इति राज-अपसर्पाः ।। १३.३.४९ ।। एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ।। १३.३.५० ।। व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ।। १३.३.५१ ।। कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ।। १३.३.५२ ।। गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ।। १३.३.५३ ।। संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५४ ।। अथावस्कन्दं दद्यात् ।। १३.३.५५ ।। शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५६ ।। अथावस्कन्दं दद्यात् ।। १३.३.५७ ।। ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ।। १३.३.५८अ ब ।। घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ।। १३.३.५८च्द् ।।

✦ ✦ ✦

While the army watches from outside, three quieter sieges shall be run in parallel. The fi
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.