Arthashastra. Book 13, Chapter 4: The operation of a siege. The last resort, run by every other means first
Book 13 · Chapter 4
Strategic Means to Capture a Fortress
The operation of a siege. The last resort, run by every other means first
कर्शन-पूर्वं पर्युपासन-कर्म ।। १३.४.०१ ।। जन-पदं यथा-निविष्टं अभये स्थापयेत् ।। १३.४.०२ ।। उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ।। १३.४.०३ ।। संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ।। १३.४.०४ ।। न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ।। १३.४.०५ ।। विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ।। १३.४.०६ ।। प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ।। १३.४.०७अ ब ।। वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ।। १३.४.०७च्द् ।। "प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च" इति पर्युपासीत ।। १३.४.०८ ।। कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ।। १३.४.०९ ।। निम्नं वा पांसु-मालयाआच्छादयेत् ।। १३.४.१० ।। बहुल-आरक्षं यन्त्रैर्घातयेत् ।। १३.४.११ ।। निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ।। १३.४.१२ ।। विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ।। १३.४.१३ ।। दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ।। १३.४.१४ ।। अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ।। १३.४.१५ ।। गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ।। १३.४.१६ ।। शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ।। १३.४.१७ ।। सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ।। १३.४.१८ ।। प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ।। १३.४.१९ ।। सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ।। १३.४.२० ।। तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ।। १३.४.२१ ।। न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ।। १३.४.२२ ।। अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ।। १३.४.२३ ।। क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ।। १३.४.२४ ।। "सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्यवमर्द-कालः ।। १३.४.२५ ।। स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ।। १३.४.२६ ।। स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ।। १३.४.२७ ।। मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ।। १३.४.२८ ।। तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ।। १३.४.२९ ।। ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ।। १३.४.३० ।। प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.४.३१ ।। नगरं वाअस्य प्रमृद्नीयात् ।। १३.४.३२ ।। सार-बलं वाअस्य वमयित्वाअभिहन्यात् ।। १३.४.३३ ।। तेन दण्ड-उपनत-आटविका व्याख्याताः ।। १३.४.३४ ।। दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ।। १३.४.३५ ।। प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ।। १३.४.३६ ।। ततः पूर्ववदाचरेत् ।। १३.४.३७ ।। पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ।। १३.४.३८ ।। आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ।। १३.४.३९ ।। प्रतिपन्नं पूर्ववदाचरेत् ।। १३.४.४० ।। मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ।। १३.४.४१ ।। आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ।। १३.४.४२ ।। प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ।। १३.४.४३ ।। यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ।। १३.४.४४ ।। विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ।। १३.४.४५ ।। विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ।। १३.४.४६ ।। आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ।। १३.४.४७ ।। संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ।। १३.४.४८ ।। निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ।। १३.४.४९ ।। अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ।। १३.४.५० ।। दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ।। १३.४.५१ ।। पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ।। १३.४.५२ ।। पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ।। १३.४.५३ ।। एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ।। १३.४.५४ ।। एष प्रथमो मार्गः पृथिवीं जेतुं ।। १३.४.५५ ।। मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ।। १३.४.५६ ।। एष द्वितीयो मार्गः ।। १३.४.५७ ।। मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ।। १३.४.५८ ।। एष-तृतीयो मार्गः ।। १३.४.५९ ।। शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ।। १३.४.६० ।। एष चतुर्थो मार्गः पृथिवीं जेतुं ।। १३.४.६१ ।। जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ।। १३.४.६२ ।। उपजापोअपसर्पश्च वामनं पर्युपासनं । ।। १३.४.६३अ ब ।। अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ।। १३.४.६३च्द् ।।
✦ ✦ ✦
“He who is possessed of a strong army, who has succeeded in his intrigues, and who has appl…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.