Arthashastra. Book 13, Chapter 5: How to govern a conquered country. The most humane page in the Arthashastra

Book 13 · Chapter 5

Strategic Means to Capture a Fortress

How to govern a conquered country. The most humane page in the Arthashastra

द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ।। १३.५.०१ ।। त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ।। १३.५.०२ ।। नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ।। १३.५.०३ ।। स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ।। १३.५.०४ ।। यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ।। १३.५.०५ ।। अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ।। १३.५.०६ ।। तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ।। १३.५.०७ ।। देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ।। १३.५.०८ ।। देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ।। १३.५.०९ ।। उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ।। १३.५.१० ।। सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ।। १३.५.११ ।। चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ।। १३.५.१२ ।। योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ।। १३.५.१३ ।। यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ।। १३.५.१४ ।। चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ।। १३.५.१५ ।। परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ।। १३.५.१६ ।। अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ।। १३.५.१७ ।। स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ।। १३.५.१८ ।। यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ।। १३.५.१९ ।। कुपितैस्तैरेनं घातयेत् ।। १३.५.२० ।। प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ।। १३.५.२१ ।। भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ।। १३.५.२२ ।। पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ।। १३.५.२३ ।। चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ।। १३.५.२४अ ब ।। प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ।। १३.५.२४च्द् ।।

✦ ✦ ✦

Having acquired a new territory, he should cover the enemy's vices with his own virtues, a
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.