Arthashastra. Book 14, Chapter 1: Asymmetric weapons as the recourse of the weaker king
Book 14 · Chapter 1
Secret Means
Asymmetric weapons as the recourse of the weaker king
चातुर्वर्ण्य-रक्षा-अर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत ।। १४.१.०१ ।। काल-कूट-आदिर्विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मभिर्म्लेच्छ-जातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च पर-शरीर-उपभोगेष्ववधातव्यः ।। १४.१.०२ ।। राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानं कुर्युः । सत्त्र-आजीविनश्च रात्रि-चारिणोअग्नि-जीविनश्चाग्नि-निधानं ।। १४.१.०३ ।। चित्र-भेक-कौण्डिन्यक-कृकण-पञ्च-कुष्ठ-शत-पदी-चूर्णं उच्चि-दिण्ग-कम्बली-शत-कन्द(कर्दम?)-इध्म-कृकलास-चूर्णं गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णं भल्लातक-अवल्गु-जर-सम्युक्तं सद्यः-प्राण-हरम् । एतेषां वा धूमः ।। १४.१.०४ ।। कीटो वाअन्यतमस्तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ।। १४.१.०५अ ब ।। शोषयेदेष सम्योगः सद्यः-प्राण-हरो मतः ।। १४.१.०५च्द् ।। धाम-अर्गव-यातु-धान-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं आर्धमासिकः ।। १४.१.०६ ।। व्याघातक-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं कीट-योगो मासिकः ।। १४.१.०७ ।। कला-मात्रं पुरुषाणाम् । द्वि-गुणं खर-अश्वानाम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.१.०८ ।। शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतो यावच्चरति तावन्मारयति ।। १४.१.०९ ।। पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्र-गोप-चूर्णं पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णं वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तं अन्धी-करो धूमः ।। १४.१.१० ।। पूति-करञ्ज-पत्त्र-हरि-ताल-मनः-शिला-गुञ्ज-आरक्त-कार्पास-पलाल-अन्य-आस्फोट-काच-गो-शकृद्-रस-पिष्टं अन्धी-करो धूमः ।। १४.१.११ ।। सर्प-निर्मोकं गो-अश्व-पुरीषं अन्ध-अहिक-शिरश्चान्धी-करो धूमः ।। १४.१.१२ ।। पारावत-प्लवक-क्रव्य-अदानां हस्ति-नर-वराहाणां च मूत्र-पुरीषं कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनां च बीजानि गो-मूत्रिका-भाण्डी-मूलं निम्ब-शिग्रु-फणिर्ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णं इत्येष धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशो ।। १४.१.१३ ।। ।। यावच्चरति तावन्मारयति ।। काली-कुष्ठ-नड-शतावली-मूलं सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णं वा धूमः पूर्व-कल्पेनऽर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनां नेत्रघ्नः ।। १४.१.१४ ।। शारिका-कपोत-बक-बलाका-लेण्डं अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टं अन्धी-करणं अञ्जनं उदक-दूषणं च ।। १४.१.१५ ।। यवक-शालि-मूल-मदन-फल-जाती-पत्त्र-नर-मूत्र-योगः प्लक्ष-विदारी-मूल-युक्तो मूक-उदुम्बर-मदन-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१६ ।। शृङ्गि-गौतम-वृक-कण्टक-अर-मयूर-पदी-योगो गुञ्जा-लाङ्गली-विष-मूलिक-इङ्गुदी-योगः कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगो मद्न-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१७ ।। समस्ता वा यवस-इन्धन-उदक-दूषणाः ।। १४.१.१८ ।। कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमो नेत्र-वधं उन्मादं च करोति ।। १४.१.१९ ।। कृकलास-गृह-गोलिका-योगः कुष्ठ-करः ।। १४.१.२० ।। स एव चित्रं एक-अन्त्र-मधु-युक्तः प्रमेहं आपादयति । मनुष्य-लोहित-युक्तः शोषं ।। १४.१.२१ ।। दूषी-विषं मदन-कोद्रव-चूर्णं अपजिह्विका-योगः ।। १४.१.२२ ।। मातृ-वाहक-अञ्जलि-कार-प्रचलाक-भेक-अक्षि-पीलुक-योगो विषूचिका-करः ।। १४.१.२३ ।। पञ्च-कुष्ठक-कौण्डिन्य-कराज-वृक्ष-पुष्प-मधु-योगो ज्वर-करः ।। १४.१.२४ ।। भासन-कुल-जिह्वा-ग्रन्थिका-योगः खरी-क्षीर-पिष्टो मूक-बधिर--करो मास-अर्ध-मासिकः ।। १४.१.२५ ।। कला-मात्रं पुरुषाणां इत्समानं पूर्वेण ।। १४.१.२६ ।। भङ्ग-क्वाथ-उपनयनं औषधानाम् । चूर्णं प्राण-भृताम् । सर्वेषां वा क्वाथ-उपनयनम् । एवं वीर्यवत्तरं भव्ति ।। १४.१.२७ ।। इति योग-सम्पत् ।। १४.१.२८ ।। शाल्मली विदारी-धान्य-सिद्धो मूल-वत्स-नाभ-सम्युक्तश्चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान्दश-पुरुषान्दशति । ते दष्टा दशान्यान्दशन्ति पुरुषान् ।। १४.१.२९ ।। बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानां पुष्पैरेलक-अक्षि-गुग्गुलु-हालाहलानां च कषायं बस्त-नर-शोणित-युक्तं दंश-योगः ।। १४.१.३० ।। ततोअर्ध-धरणिको योगः सक्तु-पिण्याकाभ्यां उदके प्रणीतो धनुः-शत-आयामं उदक-आशयं दूषयति ।। १४.१.३१ ।। मत्स्य-परम्परा ह्येतेन दष्टाअभिमृष्टा वा विषी-भवति । यश्चएतदुदकं पिबति स्पृशति वा ।। १४.१.३२ ।। रक्त-श्वेत-सर्षपैर्गोधा त्रि-पक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येनौद्धृता यावत्पश्यति तावन्मारयति । कृष्ण-सर्पो वा ।। १४.१.३३ ।। विद्युत्-प्रदग्धोअङ्गारो ज्वालो वा विद्युत्-प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाअभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ।। १४.१.३४ ।। कर्मारादग्निं आहृत्य क्षौद्रेण जुहुयात्पृथक् । ।। १४.१.३५अ ब ।। सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ।। १४.१.३५च्द् ।। माल्येन चएक-पत्न्य्-अग्निं पुंश्चल्य्-अग्निं च सर्षपैः । ।। १४.१.३६अ ब ।। दध्ना च सूतिकास्वग्निं आहित-अग्निं च तण्डुलैः ।। १४.१.३६च्द् ।। चण्डाल-अग्निं च मांसेन चित-अग्निं मानुषेण च ।। १४.१.३७अ ब ।। समस्तान्बस्त-वसया मानुषेण ध्रुवेण च ।। १४.१.३७च्द् ।। जुहुयादग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ।। १४.१.३८अ ब ।। एष निष्प्रतिकारोअग्निर्द्विषतां नेत्र-मोहनः ।। १४.१.३८च्द् ।। अदिते नमस्ते । अनुमते नमस्ते । सरस्वति नमस्ते । देव सवितर्नमास्ते ।। १४.१.३९ ।। अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ।। १४.१.४० ।।
✦ ✦ ✦
“When the conqueror is feebler in troops, treasure, and allies than his rival, and yet must…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.