Arthashastra. Book 14, Chapter 3: Sleep, stupor, and the soporific arts
Book 14 · Chapter 3
Secret Means
Sleep, stupor, and the soporific arts
मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानां अन्येषां वा निशा-चराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ।। १४.३.०१ ।। ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ।। १४.३.०२ ।। एक-आम्लकं वराह-अक्षि ख-द्योतः काल-शारिवा । ।। १४.३.०३अ ब ।। एतेनाभ्यक्त-नयनो रात्रौ रूपाणि पश्यति ।। १४.३.०३च्द् ।। त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ।। १४.३.०४ ।। ततो यव-विरूढ-मालां आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.०५ ।। त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ।। १४.३.०६ ।। ततो यथा-स्वं अभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०७ ।। त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत् ।। १४.३.०८ ।। ततो अन्यतमेनाक्षि-चूर्णेनाभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०९ ।। त्रि-रात्र-उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत् ।। १४.३.१० ।। ततो निशा-चराणां सत्त्वानां अन्यतमस्य शिरः-कपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ।। १४.३.११ ।। तदञ्जनं पुष्येणौद्धृत्य तस्यां अञ्जन्यां निदध्यात् ।। १४.३.१२ ।। तेनाभ्यक्त-अक्षो नष्ट-छाया-रूपश्चरति ।। १४.३.१३ ।। यत्र ब्राह्मणं आहित-अग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयं-मृतस्य वाससा प्रसेवं कृत्वा चिता-भस्मना पूरयित्वा तं आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.१४ ।। ब्राह्मणस्य प्रेत-कार्ये यो गौर्मार्यते तस्यास्थि-मज्ज-चूर्ण-पूर्णाअहि-भस्त्रा पशूनां अन्तर्-धानं ।। १४.३.१५ ।। सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणां अन्तर्-धानं ।। १४.३.१६ ।। उलूक-वागुली-पुच्छ-पुरीष-जान्व्-अस्थि-चूर्ण-पूर्णाअहि-भस्त्रा पक्षिणां अन्तर्-धानं ।। १४.३.१७ ।। इत्यष्टावन्तर्-धान-योगः ।। १४.३.१८ ।। "बलिं वैरोचनं वन्दे शत-मायं च शम्बरं । ।। १४.३.१९अ ब ।। भण्डीर-पाकं नरकं निकुम्भं कुम्भं एव च ।। १४.३.१९च्द् ।। देवलं नारदं वन्दे वन्दे सावर्णि-गालवं । ।। १४.३.२०अ ब ।। एतेषां अनुयोगेन कृतं ते स्वापनं महत् ।। १४.३.२०च्द् ।। यथा स्वपन्त्यजगराः स्वपन्त्यपि चमू-खलाः । ।। १४.३.२१अ ब ।। तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ।। १४.३.२१च्द् ।। भण्डकानां सहस्रेण रथ-नेमि-शतेन च । ।। १४.३.२२अ ब ।। इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः ।। १४.३.२२च्द् ।। नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ।। १४.३.२३अ ब ।। ये देवा देव-लोकेषु मानुषेषु च ब्राह्मणाः ।। १४.३.२३च्द् ।। अध्ययन-पारगाः सिद्धा ये च कौलास तापसाः । ।। १४.३.२४अ ब ।। एतेभ्यः सर्व-सिद्धेभ्यः कृतं ते स्वापनं महत् ।। १४.३.२४च्द् ।। अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ।। १४.३.२५ ।। अलिते । वलिते । मनवे स्वाहा ।। १४.३.२६ ।। एतस्य प्रयोगः ।। १४.३.२७ ।। त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्यां पुष्य-योगिन्यां श्व-पाकी-हस्ताद्विलख-अवलेखनं क्रीणीयात् ।। १४.३.२८ ।। तन्-माषैः सह कण्डोलिकायां कृत्वाअसंकीर्ण आदहने निखानयेत् ।। १४.३.२९ ।। द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ।। १४.३.३० ।। तत एकां गुलिकां अभिमन्त्रयित्वा यत्रएतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३१ ।। एतेनएव कल्पेन श्वा-विधः शल्यकं त्रि-कालं त्रिश्वेतं असंकीर्ण आदहने निखानयेत् ।। १४.३.३२ ।। द्वितीयस्यां चतुर्दश्यां उद्धृत्यऽदहन-भस्मना सह यत्र-एतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३३ ।। "सुवर्ण-पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश-ध्वजं । ।। १४.३.३४अ ब ।। सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।। १४.३.३४च्द् ।। वशं मे ब्राह्मणा यान्तु भूमि-पालाश्च क्षत्रियाः । ।। १४.३.३५अ ब ।। वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।। १४.३.३५च्द् ।। स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ।। १४.३.३६ ।। सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.३७अ ब ।। श्वा-विधः शल्यकं चएतत्त्रि-श्वेतं ब्रह्म-निर्मितं ।। १४.३.३७च्द् ।। प्रसुप्ताः सर्व-सिद्धा हि एतत्ते स्वापनं कृतं । ।। १४.३.३८अ ब ।। यावद्ग्रामस्य सीमान्तः सूर्यस्यौद्गमनादिति ।। १४.३.३८च्द् ।। स्वाहा" ।। १४.३.३९ ।। एतस्य प्रयोगः ।। १४.३.४० ।। श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्ट-शत-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.४१ ।। तत एकं एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.४२ ।। "बलिं वैरोचनं वन्दे शतमायं च शम्बरं । ।। १४.३.४३अ ब ।। निकुम्भं नरकं कुम्भं तन्तु-कच्छं महा-असुरं ।। १४.३.४३च्द् ।। अर्मालवं प्रमीलं च मण्ड-उलूकं घट-उबलं । ।। १४.३.४४अ ब ।। कृष्ण-कंस-उपचारं च पौलोमीं च यशस्विनीं ।। १४.३.४४च्द् ।। अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्-अर्थं शव-शारिकां । ।। १४.३.४५अ ब ।। जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ।। १४.३.४५च्द् ।। सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.४६अ ब ।। सुखं स्वपन्तु सिद्ध-अर्था यं अर्थं मार्गयामहे । ।। १४.३.४६च्द् ।। यावदस्तं अयादुदयो यावदर्थं फलं मम ।। १४.३.४६एक ।। इति स्वाहा ।। १४.३.४७ ।। एतस्य प्रयोगः ।। १४.३.४८ ।। चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां असंकीर्ण आदहने बलिं कृत्वाएतेन मन्त्रेण शव-शारिकां गृहीत्वा पौत्री-पोट्टलिकं बध्नीयात् ।। १४.३.४९ ।। तन्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्रएतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.५० ।। "उपैमि शरणं चाग्निं दैवतानि दिशो दश । ।। १४.३.५१अ ब ।। अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ।। १४.३.५१च्द् ।। स्वाहा" ।। १४.३.५२ ।। एतस्य प्रयोगः ।। १४.३.५३ ।। त्रि-रात्र-उपोस्षितः पुष्येण शर्करा एक-विंशति-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.५४ ।। ततो गन्ध-माल्येन पूजयित्वा निखानयेत् ।। १४.३.५५ ।। द्वितीयेन पुष्येणौद्धृत्यएकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात् ।। १४.३.५६ ।। अभ्यन्तरं चतसृणां शर्कराणां द्वारं अपाव्रियते ।। १४.३.५७ ।। चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत् । अभिमन्त्रयेच्चएतेन ।। १४.३.५८ ।। द्वि-गो-युक्तं गो-यानं आहृतं भवति ।। १४.३.५९ ।। ततः परम-आकाशे विरामति ।। १४.३.६० ।। रवि-सगन्धः परिघमति सर्वं पृणाति ।। १४.३.६१ ।। "चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः सनारी-भगोअसि स्वाहा ।। १४.३.६२ ।। ताल-उद्घाटनं प्रस्वापनं च ।। १४.३.६३ ।। त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां तुवरी-रावास्यौदकेन सेचयेत् (?) ।। १४.३.६४ ।। जातानां पुष्येणएव गृहीत्वा रज्जुकां वर्तयेत् ।। १४.३.६५ ।। ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्-छेदनं करोति ।। १४.३.६६ ।। उदक-अहि-भस्त्रां उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनं मुख-ग्रहश्च ।। १४.३.६७ ।। वराह-भस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुनाअवबध्नीयात् । आनाह-कारणं ।। १४.३.६८ ।। कृष्ण-चतुर्दश्यां शस्त्र-हताया गोः कपिलायाः पित्तेन राज-वृक्षमयीं अमित्र-प्रतिमां अञ्ज्यात् । अन्धी-करणं ।। १४.३.६९ ।। चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां बलिं कृत्वा शूल-प्रोतस्य पुरुषस्यास्थ्ना कीलकान्कारयेत् ।। १४.३.७० ।। एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति । पदेअस्यऽसने वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्-छेदं करोति ।। १४.३.७१ ।। एतेनएव कल्पेन विद्युद्-दग्धस्य वृक्षस्य कीलका व्याख्याताः ।। १४.३.७२ ।। पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७३अ ब ।। कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ।। १४.३.७३च्द् ।। निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । ।। १४.३.७४अ ब ।। सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७४च्द् ।। पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७५अ ब ।। स्वयं-गुप्ता मनुष्य-अस्थि पदे यस्य निखन्यते ।। १४.३.७५च्द् ।। द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । ।। १४.३.७६अ ब ।। सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७६च्द् ।। अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ।। १४.३.७७अ ब ।। ब्राह्मणानां श्व-पाकानां काक-उलूकस्य चऽहरेत् । ।। १४.३.७७च्द् ।। एतेन विष्ठाअवक्षुण्णा सद्य उत्साद-कारिका ।। १४.३.७७च्द् ।। प्रेत-निर्मालिका किण्वं रोमाणि नकुलस्य च । ।। १४.३.७८अ ब ।। वृश्चिक-आल्य्(?)-अहि-कृत्तिश्च पदे यस्य निखन्यते । ।। १४.३.७८च्द् ।। भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ।। १४.३.७८एफ़् ।। त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां गुञ्जा आवास्यौदकेन सेचयेत् ।। १४.३.७९ ।। जातानां अमावास्यायां पौर्णमास्यां वा पुष्य-योगिन्यां गुञ्ज-वल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ।। १४.३.८० ।। तेष्वन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ।। १४.३.८१ ।। रात्रि-प्रेक्षायां प्रवृत्तायां प्रदीप-अग्निषु मृत-धेनोः स्तनानुत्कृत्य दाहयेत् ।। १४.३.८२ ।। दग्धान्वृष-मूत्रेण पेषयित्वा नव-कुम्भं अन्तर्-लेपयेत् ।। १४.३.८३ ।। तं ग्रामं अपसव्यं परिणीय यत्तत्र न्यस्तं नव-नीतं एषां तत्सर्वं आगच्छति ।। १४.३.८४ ।। कृष्ण-चतुर्दश्यां पुष्य-योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ।। १४.३.८५ ।। तां स्वयं पतितां गृह्णीयात् ।। १४.३.८५ ।। तया वृक्ष-फलान्याकारितान्यागच्छन्ति ।। १४.३.८७ ।। मन्त्र-भैषज्य-सम्युक्ता योगा माया-कृताश्च ये । ।। १४.३.८८अ ब ।। उपहन्यादमित्रांस्तैः स्व-जनं चाभिपालयेत् ।। १४.३.८८च्द् ।।
✦ ✦ ✦
“There are smokes which, lit in a chamber, lay the watchmen down in a sleep they cannot wak…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.