Arthashastra. Book 15, Chapter 1: Lakshana. The discipline of definition

Book 15 · Chapter 1

The Plan of a Treatise

Lakshana. The discipline of definition

मनुष्याणां वृत्तिरर्थः । मनुष्यवती भूमिरित्यर्थः ।। १५.१.०१ ।। तस्याः पृथिव्या लाभ-पालन-उपायः शास्त्रं अर्थ-शास्त्रं इति ।। १५.१.०२ ।। तद्-द्वात्रिंशद्युक्ति-युक्तं अधिकरणम् । विधानम् । योगः । पद-अर्थः । हेत्व्-अर्थः । उद्देशः । निर्देशः । उपदेशः । अपदेशः । अतिदेशः । प्रदेशः । उपमानम् । अर्थ-आपत्तिः । संशयः । प्रसङ्गः । विपर्ययः । वाक्य-शेषः । अनुमतम् । व्याख्यानम् । निर्वचनम् । निदर्शनम् । अपवर्गः । स्व-संज्ञा । पूर्व-पक्षः । उत्तर-पक्षः । एक-अन्तः । अनागत-अवेक्षणम् । ।। १५.१.०३ ।। ।। अतिक्रान्त-अवेक्षणम् । नियोगः । विकल्पः । समुच्चयः ऊह्यं इति ।। यं अर्थं अधिकृत्यौच्यते तदधिकरणं ।। १५.१.०४ ।। "पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतम्" इति ।। १५.१.०५ ।। शास्त्रस्य प्रकरण-अनुपूर्वी विधानं ।। १५.१.०६ ।। "विद्या-समुद्देशः । वृद्ध-सम्योगः । इन्द्रिय-जयः । अमात्य-उत्पत्तिः" इत्येवं-आदिकं इति ।। १५.१.०७ ।। वाक्य-योजना योगः ।। १५.१.०८ ।। "चतुर्-वर्ण-आश्रमो लोकः" इति ।। १५.१.०९ ।। पद-अवधिकः पद-अर्थः ।। १५.१.१० ।। मूल-हर इति पदं ।। १५.१.११ ।। "यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः" इत्यर्थः ।। १५.१.१२ ।। हेतुरर्थ-साधको हेत्व्-अर्थः ।। १५.१.१३ ।। "अर्थ-मूलौ हि धर्म-कामौ" इति ।। १५.१.१४ ।। समास-वाक्यं उद्देशः ।। १५.१.१५ ।। "विद्या-विनय-हेतुरिन्द्रिय-जयः" इति ।। १५.१.१६ ।। व्यास-वाक्यं निर्देशः ।। १५.१.१७ ।। "कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः"इति ।। १५.१.१८ ।। एवं वर्तितव्यं इत्युपदेशः ।। १५.१.१९ ।। "धर्म-अर्थ-विरोधेन कामं सेवेत । न निह्सुखः स्यात्" इति ।। १५.१.२० ।। एवं असावाहैत्यपदेशः ।। १५.१.२१ ।। "मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीतैति मानवाः षोडशैति बार्हस्पत्याः विंशतिं इत्यौशनसाः यथा-सामर्थ्यं इति कौटिल्यः" इति ।। १५.१.२२ ।। उक्तेन साधनं अतिदेशः ।। १५.१.२३ ।। "दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातम्" इति ।। १५.१.२४ ।। वक्तव्येन साधनं प्रदेशः ।। १५.१.२५ ।। "साम-दान-भेद-दण्डैर्वा । यथाआपत्सु व्याख्यास्यामः" इति ।। १५.१.२६ ।। दृष्टेनादृष्टस्य साधनं उपमानं ।। १५.१.२७ ।। "निवृत्त-परिहारान्पिताइवानुगृह्णीयात्" इति ।। १५.१.२८ ।। यदनुक्तं अर्थादापद्यते साअर्थ-आपत्तिः ।। १५.१.२९ ।। "लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-सम्पन्नं प्रिय-हित-द्वारेणऽश्रयेत" ।। १५.१.३० ।। "नाप्रिय-हित-द्वारेणऽश्रयेत" इत्यर्थादापन्नं भवतिइति ।। १५.१.३१ ।। उभयतो-हेतुमानर्थः संशयः ।। १५.१.३२ ।। "क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वा" इति ।। १५.१.३३ ।। प्रकरण-अन्तरेण समानोअर्थः प्रसङ्गः ।। १५.१.३४ ।। "कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण" इति ।। १५.१.३५ ।। प्रतिलोमेन साधनं विपर्ययः ।। १५.१.३६ ।। "विपरीतं अतुष्टस्य" इति ।। १५.१.३७ ।। येन वाक्यं समाप्यते स वाक्य-शेषः ।। १५.१.३८ ।। "छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च" इति ।। १५.१.३९ ।। तत्र "शकुनेः" इति वाक्य-शेषः ।। १५.१.४० ।। पर-वाक्यं अप्रतिषिद्धं अनुमतं ।। १५.१.४१ ।। "पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः" इति ।। १५.१.४२ ।। अतिशय-वर्णना व्याख्यानं ।। १५.१.४३ ।। "विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यात्" इति ।। १५.१.४४ ।। गुणतः शब्द-निष्पत्तिर्निर्वचनं ।। १५.१.४५ ।। "व्यस्यत्येनं श्रेयस इति व्यसनम्" इति ।। १५.१.४६ ।। दृष्ट-अन्तो दृष्ट-अन्त-युक्तो निदर्शनं ।। १५.१.४७ ।। "विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इव-अभ्युपैति" इति ।। १५.१.४८ ।। अभिप्लुत-व्यपकर्षणं अपवर्गः ।। १५.१.४९ ।। "नित्यं आसन्नं अरि-बलं वासयेदन्यत्राभ्यन्तर-कोप-शङ्कायाः" इति ।। १५.१.५० ।। परैरसमितः शब्दः स्व-संज्ञा ।। १५.१.५१ ।। "प्रथमा प्रकृतिः । तस्य भूम्य्-अनन्तरा द्वितीया । भूम्य्-एक-अन्तरा तृतीया" इति ।। १५.१.५२ ।। प्रतिषेद्धव्यं वाक्यं पूर्व-पक्षः ।। १५.१.५३ ।। "स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः" इति ।। १५.१.५४ ।। तस्य निर्णयन-वाक्यं उत्तर-पक्षः ।। १५.१.५५ ।। "तद्-आयत्तत्वात् । तत्-कूट-स्थानीयो हि स्वामी" इति ।। १५.१.५६ ।। सर्वत्र-आयत्तं एक-अन्तः ।। १५.१.५७ ।। "तस्मादुत्थानं आत्मनः कुर्वीत" इति ।। १५.१.५८ ।। पश्चादेवं विहितं इत्यनागत-अवेक्षणं ।। १५.१.५९ ।। "तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः" इति ।। १५.१.६० ।। पुरस्तादेवं विहितं इत्यतिक्रान्त-अवेष्कणं ।। १५.१.६१ ।। "अमात्य-सम्पदुक्ता पुरस्तात्" इति ।। १५.१.६२ ।। एवं नान्यथाइति नियोगः ।। १५.१.६३ ।। "तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेत् । नाधर्म्यं अनर्थयं च" इति ।। १५.१.६४ ।। अनेन वाअनेन वाइति विकल्पः ।। १५.१.६५ ।। "दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः" इति ।। १५.१.६६ ।। अनेन चानेन चैति समुच्चयः ।। १५.१.६७ ।। "स्वयंजातः पितुर्बन्धूनां च दायादः" इति ।। १५.१.६८ ।। अनुक्त-करणं ऊह्यं ।। १५.१.६९ ।। "यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः" इति ।। १५.१.७० ।। एवं शास्त्रं इदं युक्तं एताभिस्तन्त्र-युक्तिभिः । ।। १५.१.७१अ ब ।। अवाप्तौ पालने चौक्तं लोकस्यास्य परस्य च ।। १५.१.७१च्द् ।। धर्मं अर्थं च कामं च प्रवर्तयति पाति च । ।। १५.१.७२अ ब ।। अधर्म-अनर्थ-विद्वेषानिदं शास्त्रं निहन्ति च ।। १५.१.७२च्द् ।। येन शास्त्रं च शस्त्रं च नन्द-राज-गता च भूः । ।। १५.१.७३अ ब ।। अमर्षेणौद्धृतान्याशु तेन शास्त्रं इदं कृतं ।। १५.१.७३च्द् ।।

✦ ✦ ✦

Lakshana is the statement of the defining marks of a thing. Those features by which it is
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.