Arthashastra. Book 2, Chapter 1: On settling new land
Book 2 · Chapter 1
The Duties of Government Officials
On settling new land
भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ।। ०२.०१.०१ ।। शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ।। ०२.०१.०२ ।। नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ।। ०२.०१.०३ ।। अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ।। ०२.०१.०४ ।। अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ।। ०२.०१.०५ ।। तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ।। ०२.०१.०६ ।। ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ।। अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ।। ०२.०१.०७ब ।। करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ।। ०२.०१.०८ ।। अकृतानि कर्तृभ्यो नऽदेयानि ।। ०२.०१.०९ ।। अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ।। ०२.०१.१० ।। ग्राम-भृतक-वैदेहका वा कृषेयुः ।। ०२.०१.११ ।। अकृषन्तो वाअवहीनं दद्युः ।। ०२.०१.१२ ।। धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ।। ०२.०१.१३ ।। तान्यनु सुखेन दद्युः ।। ०२.०१.१४ ।। अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ।। ०२.०१.१५ ।। अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ।। ०२.०१.१६ ।। निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ।। ०२.०१.१७ ।। निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ।। ०२.०१.१८ ।। आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ।। ०२.०१.१९ ।। सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ।। ०२.०१.२० ।। अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ।। ०२.०१.२१ ।। सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ।। ०२.०१.२२ ।। व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ।। ०२.०१.२३ ।। मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।। ०२.०१.२४ ।। दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।। ०२.०१.२५ ।। बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ।। ०२.०१.२६ ।। बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ।। ०२.०१.२७ ।। अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ।। ०२.०१.२८ ।। पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ।। ०२.०१.२९ ।। लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ।। ०२.०१.३० ।। अन्यथा नियम्येत ।। ०२.०१.३१ ।। वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ।। ०२.०१.३२ ।। न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ।। ०२.०१.३३ ।। नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ।। ०२.०१.३४ ।। निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ।। ०२.०१.३५ ।। पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ।। देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ।। ०२.०१.३६च्द् ।। दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ।। स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ।। ०२.०१.३७च्द् ।। वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ।। शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ।। ०२.०१.३८च्द् ।। एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ।। रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ।। ०२.०१.३९च्द् ।।
✦ ✦ ✦
“Either by inducing foreigners to immigrate, or by drafting from densely populated regions,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.