Arthashastra. Book 2, Chapter 10: How a royal order is written

Book 2 · Chapter 10

The Duties of Government Officials

How a royal order is written

शासने शासनं इत्याचक्षते ।। ०२.१०.०१ ।। शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ।। ०२.१०.०२ ।। तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ।। ०२.१०.०३ ।। सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ।। ०२.१०.०४ ।। जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ।। ०२.१०.०५अ ब ।। यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ।। ०२.१०.०५च्द् ।। अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ।। ०२.१०.०६ ।। तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ।। ०२.१०.०७ ।। प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ।। ०२.१०.०८ ।। अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ।। ०२.१०.०९ ।। सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ।। ०२.१०.१० ।। अग्राम्य-शब्द-अभिधानं औदार्यं ।। ०२.१०.११ ।। प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ।। ०२.१०.१२ ।। अ-कार-आदयो वर्णास्त्रिषष्टिः ।। ०२.१०.१३ ।। वर्ण-संघातः पदं ।। ०२.१०.१४ ।। तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ।। ०२.१०.१५ ।। तत्र नाम सत्त्व-अभिधायि ।। ०२.१०.१६ ।। अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ।। ०२.१०.१७ ।। क्रिया-विशेषकाः प्र-आदय उपसर्गाः ।। ०२.१०.१८ ।। अव्ययाश्च-आदयो निपाताः ।। ०२.१०.१९ ।। पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ।। ०२.१०.२० ।। एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ।। ०२.१०.२१ ।। लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ।। ०२.१०.२२ ।। निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ।। ०२.१०.२३अ ब ।। प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ।। ०२.१०.२३च्द् ।। सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ।। ०२.१०.२४अ ब ।। एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ।। ०२.१०.२४च्द् ।। तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ।। ०२.१०.२५ ।। गुण-वचनं एतेषां एव प्रशंसा ।। ०२.१०.२६ ।। "कथं एतद्" इति पृच्छा ।। ०२.१०.२७ ।। "एवम्" इत्याख्यानं ।। ०२.१०.२८ ।। "देहि" इत्यर्थना ।। ०२.१०.२९ ।। "न प्रयच्छामि" इति प्रत्याख्यानं ।। ०२.१०.३० ।। "अननुरूपं भवतः" इत्युपालम्भः ।। ०२.१०.३१ ।। "मा कार्षीः" इति प्रतिषेधः ।। ०२.१०.३२ ।। "इदं क्रियताम्" इति चोदना ।। ०२.१०.३३ ।। "योअहं स भवान् । यन्मम द्रव्यं तद्भवतः" इत्युपग्रहः सान्त्वं ।। ०२.१०.३४ ।। व्यसन-साहाय्यं अभ्युपपत्तिः ।। ०२.१०.३५ ।। सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ।। ०२.१०.३६ ।। अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ।। ०२.१०.३७ ।। प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ।। ०२.१०.३८अ ब ।। प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ।। ०२.१०.३८च्द् ।। अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ।। ०२.१०.३९अ ब ।। राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ।। ०२.१०.३९च्द् ।। भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ।। ०२.१०.४०अ ब ।। विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ।। ०२.१०.४०च्द् ।। यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ।। ०२.१०.४१अ ब ।। अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ।। ०२.१०.४१च्द् ।। जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ।। ०२.१०.४२अ ब ।। अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ।। ०२ ।१०-४२च्द् ।। निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ।। ०२.१०.४३अ ब ।। एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ।। ०२.१०.४३च्द् ।। विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ।। ०२.१०.४४अ ब ।। द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ।। ०२.१०.४४च्द् ।। दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ।। ०२.१०.४५अ ब ।। प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ।। ०२.१०.४५च्द् ।। यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ।। ०२.१०.४६अ ब ।। सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ।। ०२.१०.४६च्द् ।। उपायाः साम-उपप्रदान-भेद-दण्डाः ।। ०२.१०.४७ ।। तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ।। ०२.१०.४८ ।। तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ।। ०२.१०.४९ ।। ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ।। ०२.१०.५० ।। स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ।। ०२.१०.५१ ।। "अस्मिन्नेवं कृत इदं आवयोर्भवति" इत्याशा-जननं आयति-प्रदर्शनं ।। ०२.१०.५२ ।। "योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम्" इत्यात्म-उपनिधानं इति ।। ०२.१०.५३ ।। उपप्रदानं अर्थ-उपकारः ।। ०२.१०.५४ ।। शङ्का-जननं निर्भर्त्सनं च भेदः ।। ०२.१०.५५ ।। वधः परिक्लेशोअर्थ-हरणं दण्डः इति ।। ०२.१०.५६ ।। अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ।। ०२.१०.५७ ।। तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ।। ०२.१०.५८ ।। पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ।। ०२.१०.५९ ।। उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ।। ०२.१०.६० ।। लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ।। ०२.१०.६१ ।। अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ।। ०२.१०.६२ ।। सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ।। ०२.१०.६३अ ब ।। कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ।। ०२.१०.६३च्द् ।।

✦ ✦ ✦

A royal edict names the king who sends it, the officer who carries it, the person to whom
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.