Arthashastra. Book 2, Chapter 11: The examiner of gems
Book 2 · Chapter 11
The Duties of Government Officials
The examiner of gems
कोश-अध्यक्षः कोश-प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ।। ०२.११.०१ ।। ताम्र-पर्णिकं पाण्ड्यक-वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकं ।। ०२.११.०२ ।। शुक्तिः शङ्खः प्रकीर्णकं च योनयः ।। ०२.११.०३ ।। मसूरकं त्रि-पुटकं कूर्मकं अर्ध-चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तं ।। ०२.११.०४ ।। स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश-विद्धं च प्रशस्तं ।। ०२.११.०५ ।। शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरल-प्रतिबद्धं चैति यष्टि-प्रभेदाः ।। ०२.११.०६ ।। यष्टीनां अष्ट-सहस्रं इन्द्रच्-छन्दः ।। ०२.११.०७ ।। ततोअर्धं विजयच्-छन्दः ।। ०२.११.०८ ।। चतुष्षष्टिरर्ध-हारः ।। ०२.११.०९ ।। चतुष्-पञ्चाशद्रश्मि-कलापः ।। ०२.११.१० ।। द्वात्रिंशद्गुच्छः ।। ०२.११.११ ।। सप्त-विंशतिर्नक्षत्र-माला ।। ०२.११.१२ ।। चतुर्विंशतिरर्ध-गुच्छः ।। ०२.११.१३ ।। विंशतिर्माणवकः ।। ०२.११.१४ ।। ततोअर्धं अर्ध-माणवकः ।। ०२.११.१५ ।। एत एव मणि-मध्यास्तन्-माणवका भवन्ति ।। ०२.११.१६ ।। एक-शीर्षकः शुद्धो हारः ।। ०२.११.१७ ।। तद्वत्-शेषाः ।। ०२.११.१८ ।। मणि-मध्योअर्ध-माणवकः ।। ०२.११.१९ ।। त्रि-फलकः फलक-हारः । पञ्च-फलको वा ।। ०२.११.२० ।। सूत्रं एकावली शुद्धा ।। ०२.११.२१ ।। साएव मणि-मध्या यष्टिः ।। ०२.११.२२ ।। हेम-मणि-चित्रा रत्नावली ।। ०२.११.२३ ।। हेम-मणि-मुक्ता-अन्तरोअपवर्तकः ।। ०२.११.२४ ।। सुवर्ण-सूत्र-अन्तरं सोपानकं ।। ०२.११.२५ ।। मणि-मध्यं वा मणि-सोपानकं ।। ०२.११.२६ ।। तेन शिरो-हस्त-पाद-कटी-कलाप-जालक-विकल्पा व्याख्याताः ।। ०२.११.२७ ।। मणिः कौटो-मालेयकः पार-समुद्रकश्च ।। ०२.११.२८ ।। सौगन्धिकः पद्म-रागोअनवद्य-रागः पारिजात-पुष्पको बाल-सूर्यकः ।। ०२.११.२९ ।। वैडूर्यं उत्पल-वर्णः शिरीष-पुष्पक उदक-वर्णो वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागो गो-मूत्रको गो-मेदकः ।। ०२.११.३० ।। इन्द्र-नीलो नील-अवलीयः कलाय-पुष्पको महा-नीलो जम्ब्व्-आभो जीमूत-प्रभो नन्दकः स्रवन्-मध्यः ।। ०२.११.३१ ।। शुद्ध-स्फटिको मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तश्च इति मणयः ।। ०२.११.३२ ।। षड्-अश्रश्चतुर्-अश्रो वृत्तो वा तीव्र-रागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्-गत-प्रभः प्रभा-अनुलेपी चैति मणि-गुणाः ।। ०२.११.३३ ।। मन्द-राग-प्रभः सशर्करः पुष्पच्-छिद्रः खण्डो दुर्विद्धो लेख-आकीर्ण इति दोषाः ।। ०२.११.३४ ।। विमलकः सस्यकोअञ्जन-मूलकः पित्तकः सुलभको लोहित-अक्षो मृग-अश्मको ज्योती-रसको मालेयकोअहिच्-छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि-कूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलक इत्यन्तर-जातयः ।। ०२.११.३५ ।। शेषाः काच-मणयः ।। ०२.११.३६ ।। सभा-राष्ट्रकं तज्जमा-राष्ट्रकं कास्तीर-राष्ट्रकं श्री-कटनकं मणिमन्तकं इन्द्र-वानकं च वज्रं ।। ०२.११.३७ ।। खनिः स्रोतः प्रकीर्णकं च योनयः ।। ०२.११.३८ ।। मार्जार-अक्षकं शिरीष-पुष्पकं गो-मूत्रकं गो-मेदकं शुद्ध-स्फटिकं मूलाटी-वर्णं मणि-वर्णानां अन्यतम-वर्णं इति वज्र-वर्णाः ।। ०२.११.३९ ।। स्थूलं गुरु प्रहार-सहं समकोटिकं भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तं ।। ०२.११.४० ।। नष्ट-कोणं निराश्रि पार्श्व-अपवृत्तं चाप्रशस्तं ।। ०२.११.४१ ।। प्रवालकं आल-कन्दकं वैवर्णिकं च । रक्तं पद्म-रागं च करट-गर्भिणिका-वर्जं इति ।। ०२.११.४२ ।। चन्दनं सातनं रक्तं भूमि-गन्धि ।। ०२.११.४३ ।। गो-शीर्षकं काल-ताम्रं मत्स्य-गन्धि ।। ०२.११.४४ ।। हरि-चन्दनं शुक-पत्त्र-वर्णं आम्र-गन्धि । तार्णसं च ।। ०२.११.४५ ।। ग्रामेरुकं रक्तं रक्त-कालं वा बस्त-मूत्र-गन्धि ।। ०२.११.४६ ।। दैवसभेयं रक्तं पद्म-गन्धि । जापकं च ।। ०२.११.४७ ।। जोङ्गकं रक्तं रक्त-कालं वा स्निग्धम् । तौरूपं च ।। ०२.११.४८ ।। मालेयकं पाण्डु-रक्तं ।। ०२.११.४९ ।। कुचन्दनं रूक्षं अगुरु-कालं रक्तं रक्त-कालं वा ।। ०२.११.५० ।। काल-पर्वतकं रक्त-कालं अनवद्य-वर्णं वा ।। ०२.११.५१ ।। कोश-अगार-पर्वतकं कालं काल-चित्रं वा ।। ०२.११.५२ ।। शीत-उदकीयं पद्म-आभं काल-स्निग्धं वा ।। ०२.११.५३ ।। नाग-पर्वतकं रूक्षं शैवल-वर्णं वा ।। ०२.११.५४ ।। शाकलं कपिलं इति ।। ०२.११.५५ ।। लघु स्निग्धं अश्यानं सर्पिः-स्नेह-लेपि गन्ध-सुखं त्वग्-अनुसार्यनुल्बणं अविराग्युष्ण-सहं दाह-ग्राहि सुख-स्पर्शनं इति चन्दन-गुणाः ।। ०२.११.५६ ।। अगुरु जोङ्गकं कालं काल-चित्रं मण्डल-चित्रं वा ।। ०२.११.५७ ।। श्यामं दोङ्गकं इति ।। ०२.११.५८ ।। पार-समुद्रकं चित्र-रूपं उशीर-गन्धि नव-मालिका-गन्धि वा ।। ०२.११.५९ ।। गुरु स्निग्धं पेशल-गन्धि निर्हार्यग्नि-सहं असम्प्लुत-धूमं विमर्द-सहं इत्यगुरु-गुणाः ।। ०२.११.६० ।। तैल-पर्णिकं अशोक-ग्रामिकं मांस-वर्णं पद्म-गन्धि ।। ०२.११.६१ ।। जोङ्गकं रक्त-पीतकं उत्पल-गन्धि गो-मूत्र-गन्धि वा ।। ०२.११.६२ ।। ग्रामेरुकं स्निग्धं गो-मूत्र-गन्धि ।। ०२.११.६३ ।। सौवर्ण-कुड्यकं रक्त-पीतं मातुलुङ्ग-गन्धि ।। ०२.११.६४ ।। पूर्णक-द्वीपकं पद्म-गन्धि नव-नीत-गन्धि वा ।। ०२.११.६५ ।। भद्र-श्रियं पारलौहित्यकं जाती-वर्णं ।। ०२.११.६६ ।। आन्तरवत्यं उशीर-वर्णं ।। ०२.११.६७ ।। उभयं कुष्ठ-गन्धि च इति ।। ०२.११.६८ ।। कालेयकः स्वर्ण-भूमिजः स्निग्ध-पीतकः ।। ०२.११.६९ ।। औत्तर-पर्वतको रक्त-पीतकः इति साराः । ।। ०२.११.७० ।। पिण्ड-क्वाथ-धूम-सहं अविरागि योग-अनुविधायि च ।। ०२.११.७१ ।। चन्दन-अगुरुवच्च तेषां गुणाः ।। ०२.११.७२ ।। कान्तनावकं प्रैयकं चौत्तर-पर्वतकं चर्म ।। ०२.११.७३ ।। कान्तनावकं मयूर-ग्रीव-आभं ।। ०२.११.७४ ।। प्रैयकं नील-पीत-श्वेत-लेखा-बिन्दु-चित्रं ।। ०२.११.७५ ।। तद्-उभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.७६ ।। बिसी महा-बिसी च द्वादश-ग्रामीये ।। ०२.११.७७ ।। अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ।। ०२.११.७८ ।। परुषा श्वेत-प्राया महाबिसी ।। ०२.११.७९ ।। द्वादश-अङ्गुल-आयामं उभयं ।। ०२.११.८० ।। श्यामिका कालिका कदली चन्द्र-उत्तरा शाकुला चऽरोहजाः ।। ०२.११.८१ ।। कपिला बिन्दु-चित्रा वा श्यामिका ।। ०२.११.८२ ।। कालिका कपिला कपोत-वर्णा वा ।। ०२.११.८३ ।। तदुभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.८४ ।। परुषा कदली हस्त-आयता ।। ०२.११.८५ ।। साएव चन्द्र-चित्रा चन्द्र-उत्तरा ।। ०२.११.८६ ।। कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिकाअजिन-चित्रा वा इति ।। ०२.११.८७ ।। सामूरं चीनसी सामूली च बाह्लवेयाः ।। ०२.११.८८ ।। षट्-त्रिंशद्-अङ्गुलं अञ्जन-वर्णं सामूरं ।। ०२.११.८९ ।। चीनसी रक्त-काली पाण्डु-काली वा ।। ०२.११.९० ।। सामूली गो-धूम-वर्णा इति ।। ०२.११.९१ ।। सांतिना नल-तूला वृत्त-पृच्छा चौद्राः ।। ०२.११.९२ ।। सातिना कृष्णा ।। ०२.११.९३ ।। नल-तूला नल-तूल-वर्णा ।। ०२.११.९४ ।। कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ।। ०२.११.९५ ।। चर्मणां मृदु स्निग्धं बहुल-रोम च श्रेष्ठं ।। ०२.११.९६ ।। शुद्धं शुद्ध-रक्तं पक्ष-रक्तं चऽविकम् । खचितं वान-चित्रं खण्ड-संघात्यं तन्तु-विच्छिन्नं च ।। ०२.११.९७ ।। कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणं वर्णकं तलिच्छकं वार-वाणः परिस्तोमः समन्त-भद्रकं चऽविकं ।। ०२.११.९८ ।। पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठं ।। ०२.११.९९ ।। अष्ट-प्रोति-संघात्या कृष्णा भिङ्गिसी वर्ष-वारणं अपसारक इति नैपालकं ।। ०२.११.१०० ।। सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकाइति मृग-रोम ।। ०२.११.१०१ ।। वाङ्गकं श्वेतं स्निग्धं दुकूलं ।। ०२.११.१०२ ।। पौण्ड्रकं श्यामं मणि-स्निग्धं ।। ०२.११.१०३ ।। सौवर्ण-कुड्यकं सूर्य-वर्णं मणि-स्निग्ध-उदक-वानं चतुर्-अश्र-वानं व्यामिश्र-वानं च ।। ०२.११.१०४ ।। एतेषां एक-अंशुकं अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकं इति ।। ०२.११.१०५ ।। तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातं ।। ०२.११.१०६ ।। मागधिका पौण्ड्रिका सौवर्ण-कुड्यका च पत्त्र-ऊर्णा ।। ०२.११.१०७ ।। नाग-वृक्षो लिकुचो बकुलो वटश्च योनयः ।। ०२.११.१०८ ।। पीतिका नाग-वृक्षिका ।। ०२.११.१०९ ।। गो-धूम-वर्णा लैकुची ।। ०२.११.११० ।। श्वेता बाकुली ।। ०२.११.१११ ।। शेषा नव-नीत-वर्णा ।। ०२.११.११२ ।। तासां सौवर्ण-कुड्यका श्रेष्ठा ।। ०२.११.११३ ।। तया कौशेयं चीन-पट्टाश्च चीन-भूमिजा व्याख्याताः ।। ०२.११.११४ ।। माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठं इति ।। ०२.११.११५ ।। अतः परेषां रत्नानां प्रमाणं मूल्य-लक्षणं । ।। ०२.११.११६ ।। जातिं रूपं च जानीयान्निधानं नव-कर्म च ।। ०२.११.११७ ।। पुराण-प्रतिसंस्कारं कर्म गुह्यं उपस्करान् । ।। ०२.११.११८ ।। देश-काल-परीभोगं हिंस्राणां च प्रतिक्रियां ।। ०२.११.११९ ।।
✦ ✦ ✦
“The examiner of the treasury knows the pearl that is round from the one that is merely pol…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.