Arthashastra. Book 2, Chapter 12: Mines are the womb of the treasury
Book 2 · Chapter 12
The Duties of Government Officials
Mines are the womb of the treasury
आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ।। ०२.१२.०१ ।। पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ।। ०२.१२.०२ ।। अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ।। ०२.१२.०३ ।। तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ।। ०२.१२.०४ ।। पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ।। ०२.१२.०५ ।। शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ।। ०२.१२.०६ ।। सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ।। ०२.१२.०७ ।। तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ।। ०२.१२.०८ ।। यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ।। ०२.१२.०९ ।। मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ।। ०२.१२.१०अ ब ।। यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ।। ०२.१२.१०च्द् ।। गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ।। ०२.१२.११ ।। भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ।। ०२.१२.१२ ।। काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ।। ०२.१२.१३ ।। ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ।। ०२.१२.१४ ।। खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ।। ०२.१२.१५ ।। काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ।। ०२.१२.१६ ।। अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ।। ०२.१२.१७ ।। धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ।। ०२.१२.१८ ।। कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.१२.१९ ।। आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ।। ०२.१२.२० ।। स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ।। ०२.१२.२१ ।। व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ।। ०२.१२.२२ ।। लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ।। ०२.१२.२३ ।। लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ।। ०२.१२.२४ ।। रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ।। ०२.१२.२५ ।। रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ।। ०२.१२.२६ ।। खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ।। ०२.१२.२७ ।। लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ।। ०२.१२.२८ ।। आगन्तु-लवणं षड्-भागं दद्यात् ।। ०२.१२.२९ ।। दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ।। ०२.१२.३० ।। क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ।। ०२.१२.३१ ।। विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ।। ०२.१२.३२ ।। श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ।। ०२.१२.३३ ।। अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ।। ०२.१२.३४ ।। एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ।। ०२.१२.३५अ ब ।। शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ।। ०२.१२.३५च्द् ।। खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ।। ०२.१२.३६अ ब ।। एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ।। ०२.१२.३६च्द् ।। आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ।। ०२.१२.३७अ ब ।। पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ।। ०२.१२.३७च्द् ।।
✦ ✦ ✦
“The superintendent of mines, learned in the science of ores and metals, expert in the smel…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.