Arthashastra. Book 2, Chapter 13: The superintendent of mines
Book 2 · Chapter 13
The Duties of Government Officials
The superintendent of mines
सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ।। ०२.१३.०१ ।। विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ।। ०२.१३.०२ ।। जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ।। ०२.१३.०३ ।। किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ।। ०२.१३.०४ ।। श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ।। ०२.१३.०५ ।। तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ।। ०२.१३.०६ ।। सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ।। ०२.१३.०७ ।। रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ।। ०२.१३.०८ ।। आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ।। ०२.१३.०९ ।। तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ।। ०२.१३.१० ।। श्वेतं स्निग्धं मृदु च श्रेष्ठं ।। ०२.१३.११ ।। विपर्यये स्फोटनं च दुष्टं ।। ०२.१३.१२ ।। तत्-सीस-चतुर्-भागेन शोधयेत् ।। ०२.१३.१३ ।। उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ।। ०२.१३.१४ ।। शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ।। ०२.१३.१५ ।। ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ।। ०२.१३.१६ ।। सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ।। ०२.१३.१७ ।। सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ।। ०२.१३.१८ ।। जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ।। ०२.१३.१९ ।। सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ।। ०२.१३.२० ।। कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ।। ०२.१३.२१ ।। सम-रागी विक्रय-क्रय-हितः ।। ०२.१३.२२ ।। हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ।। ०२.१३.२३ ।। स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ।। ०२.१३.२४ ।। छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ।। ०२.१३.२५ ।। तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ।। ०२.१३.२६ ।। श्यावो नीलश्चाप्राप्तकः ।। ०२.१३.२७ ।। तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ।। ०२.१३.२८ ।। तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ।। ०२.१३.२९ ।। अक्ष-शालां अनायुक्तो नौपगच्छेत् ।। ०२.१३.३० ।। अभिगच्छन्नुच्छेद्यः ।। ०२.१३.३१ ।। आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ।। ०२.१३.३२ ।। विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ।। ०२.१३.३३ ।। सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ।। ०२.१३.३४ ।। गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ।। ०२.१३.३५ ।। सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ।। ०२.१३.३६ ।। क्षेपणो गुणः क्षुद्रकं इति कर्माणि ।। ०२.१३.३७ ।। क्षेपणः काच-अर्पण-आदीनि ।। ०२.१३.३८ ।। गुणः सूत्र-वान-आदीनि ।। ०२.१३.३९ ।। घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ।। ०२.१३.४० ।। अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ।। ०२.१३.४१ ।। ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ।। ०२.१३.४२ ।। पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ।। ०२.१३.४३ ।। त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ।। ०२.१३.४४ ।। रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ।। ०२.१३.४५ ।। चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ।। ०२.१३.४६ ।। तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ।। ०२.१३.४७ ।। तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ।। ०२.१३.४८ ।। तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ।। ०२.१३.४९ ।। एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ।। ०२.१३.५० ।। त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ।। ०२.१३.५१ ।। ताम्रं पीतकं करोति ।। ०२.१३.५२ ।। तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ।। ०२.१३.५३ ।। श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ।। ०२.१३.५४ ।। काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ।। ०२.१३.५५ ।। प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ।। ०२.१३.५६ ।। तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ।। ०२.१३.५७ ।। तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ।। ०२.१३.५८ ।। तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ।। ०२.१३.५९ ।। सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ।। ०२.१३.६०अ ब ।। सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ।। ०२.१३.६०च्द् ।। अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ।। ०२.१३.६१अ ब ।। मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ।। ०२.१३.६१च्द् ।।
✦ ✦ ✦
“The superintendent of mines walks the land before he opens it. He reads colours in the soi…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.