Arthashastra. Book 2, Chapter 14: The superintendent of gold

Book 2 · Chapter 14

The Duties of Government Officials

The superintendent of gold

सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ।। ०२.१४.०१ ।। निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ।। ०२.१४.०२ ।। कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०३ ।। काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०४ ।। यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०२.१४.०५ ।। काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ।। ०२.१४.०६ ।। आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ।। ०२.१४.०७ ।। तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ।। ०२.१४.०८ ।। तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ।। ०२.१४.०९ ।। वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ।। ०२.१४.१० ।। सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ।। ०२.१४.११ ।। कर्तुर्द्वि-गुणः सापसारश्चेत् ।। ०२.१४.१२ ।। अनपसारः कण्टक-शोधनाय नीयेत ।। ०२.१४.१३ ।। कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ।। ०२.१४.१४ ।। तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ।। ०२.१४.१५ ।। अन्यथा द्वादश-पणो दण्डः ।। ०२.१४.१६ ।। घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ।। ०२.१४.१७ ।। तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ।। ०२.१४.१८ ।। सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ।। ०२.१४.१९ ।। रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ।। ०२.१४.२० ।। तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ।। ०२.१४.२१ ।। शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ।। ०२.१४.२२ ।। मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ।। ०२.१४.२३ ।। पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ।। ०२.१४.२४ ।। पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ।। ०२.१४.२५ ।। गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ।। ०२.१४.२६ ।। सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ।। ०२.१४.२७ ।। स एव पटल-सम्पुटेष्वभ्युद्धार्यः ।। ०२.१४.२८ ।। पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ।। ०२.१४.२९ ।। शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ।। ०२.१४.३० ।। शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ।। ०२.१४.३१ ।। तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ।। ०२.१४.३२ ।। अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ।। ०२.१४.३३ ।। घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ।। ०२.१४.३४ ।। दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ।। ०२.१४.३५ ।। तयोस्तापनं अवध्वंसनं वा शुद्धिः ।। ०२.१४.३६ ।। सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ।। ०२.१४.३७ ।। तस्य क्वाथनं शुद्धिः ।। ०२.१४.३८ ।। अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ।। ०२.१४.३९ ।। तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ।। ०२.१४.४० ।। मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ।। ०२.१४.४१ ।। तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ।। ०२.१४.४२ ।। तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ।। ०२.१४.४३ ।। कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ।। ०२.१४.४४ ।। पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ।। ०२.१४.४५ ।। यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ।। ०२.१४.४६ ।। यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ।। ०२.१४.४७ ।। हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ।। ०२.१४.४८ ।। तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ।। ०२.१४.४९ ।। भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ।। ०२.१४.५० ।। अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ।। ०२.१४.५१ ।। विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ।। ०२.१४.५२ ।। अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ।। ०२.१४.५३ ।। राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ।। ०२.१४.५४ ।। एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ।। ०२.१४.५५अ ब ।। परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ।। ०२.१४.५५च्द् ।।

✦ ✦ ✦

In the working department the superintendent of gold weighs each ingot in and weighs each
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.