Arthashastra. Book 2, Chapter 15: The goldsmith on the high road
Book 2 · Chapter 15
The Duties of Government Officials
The goldsmith on the high road
कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ।। ०२.१५.०१ ।। सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ।। ०२.१५.०२ ।। पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।। धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।। सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।। सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।। तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।। कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ।। ०२.१५.०८ ।। नष्ट-प्रस्मृत-आदिरन्य-जातः ।। ०२.१५.०९ ।। विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.१५.१० ।। तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ।। ०२.१५.११ ।। धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ।। ०२.१५.१२ ।। सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ।। ०२.१५.१३ ।। फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ।। ०२.१५.१४ ।। सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ।। ०२.१५.१५ ।। क्षौद्रं मार्द्वीकं च मधु ।। ०२.१५.१६ ।। इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ।। ०२.१५.१७ ।। वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ।। ०२.१५.१८ ।। दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ।। ०२.१५.१९ ।। पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ।। ०२.१५.२० ।। शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ।। ०२.१५.२१ ।। ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।। नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।। क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।। कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।। प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।। उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ।। ०२.१५.२७ ।। पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ।। ०२.१५.२८ ।। पाद-ऊना कलाय-चमसी ।। ०२.१५.२९ ।। मुद्ग-माषाणां अर्ध-पाद-ऊना ।। ०२.१५.३० ।। ।। ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ।। पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ।। ०२.१५.३२ ।। द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ।। ०२.१५.३३ ।। कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ।। ०२.१५.३४ ।। तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ।। ०२.१५.३५ ।। पञ्च-भाग-वृद्धिर्भृष्टानां ।। ०२.१५.३६ ।। कलायो द्वि-गुणः । लाजा भरुजाश्च ।। ०२.१५.३७ ।। ।। ०२.१५.३८ ।षट्कं तैलं अतसीनां ।। निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ।। ०२.१५.३९ ।। चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ।। ०२.१५.४० ।। कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ।। ०२.१५.४१ ।। पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ।। ०२.१५.४२ ।। तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ।। ०२.१५.४३ ।। ।। ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ।। पाद-ऊनं स्त्रीणां ।। ०२.१५.४५ ।। अर्धं बालानां ।। ०२.१५.४६ ।। मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ।। ०२.१५.४७ ।। तेनौत्तरं व्याख्यातं ।। ०२.१५.४८ ।। शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ।। ०२.१५.४९ ।। हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ।। ०२.१५.५० ।। बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ।। ०२.१५.५१ ।। विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ।। ०२.१५.५२ ।। द्वि-गुणं महिष-उष्ट्राणां ।। ०२.१५.५३ ।। अर्ध-द्रोणं खर-पृषत-रोहितानां ।। ०२.१५.५४ ।। आढकं एण-कुरङ्गाणां ।। ०२.१५.५५ ।। अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ।। ०२.१५.५६ ।। प्रस्थ-ओदनः शुनां ।। ०२.१५.५७ ।। हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ।। ०२.१५.५८ ।। शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ।। ०२.१५.५९ ।। अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ।। ०२.१५.६० ।। कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ।। ०२.१५.६१ ।। तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ।। ०२.१५.६२ ।। मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ।। ०२.१५.६३ ।। उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ।। ०२.१५.६४अ ब ।। मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ।। ०२.१५.६४च्द् ।।
✦ ✦ ✦
“The state's goldsmith on the main street works in the open. The citizen who brings his gol…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.