Arthashastra. Book 2, Chapter 16: The price the market will bear, not the price a merchant demands
Book 2 · Chapter 16
The Duties of Government Officials
The price the market will bear, not the price a merchant demands
पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ।। ०२.१६.०१ ।। यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ।। ०२.१६.०२ ।। प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ।। ०२.१६.०३ ।। स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ।। ०२.१६.०४ ।। उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ।। ०२.१६.०५ ।। स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ।। ०२.१६.०६ ।। अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ।। ०२.१६.०७ ।। बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ।। ०२.१६.०८ ।। छेद-अनुरूपं च वैधरणं दद्युः ।। ०२.१६.०९ ।। षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ।। ०२.१६.१० ।। पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ।। ०२.१६.११ ।। नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ।। ०२.१६.१२ ।। अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ।। ०२.१६.१३ ।। पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ।। ०२.१६.१४ ।। अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ।। ०२.१६.१५ ।। तुला-मान-भाण्डं चार्पयेयुः ।। ०२.१६.१६ ।। इति स्व-विषये व्याख्यातं ।। ०२.१६.१७ ।। पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ।। ०२.१६.१८ ।। असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ।। ०२.१६.१९ ।। ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ।। ०२.१६.२० ।। अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ।। ०२.१६.२१ ।। आपदि सारं आत्मानं वा मोक्षयेत् ।। ०२.१६.२२ ।। आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ।। ०२.१६.२३ ।। वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ।। ०२.१६.२४ ।। नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ।। ०२.१६.२५अ ब ।। यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। ०२.१६.२५च्द् ।।
✦ ✦ ✦
“The superintendent of commerce shall know the variations of price for goods of every kind,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.