Arthashastra. Book 2, Chapter 19: Weights and measures. Materials that do not warp
Book 2 · Chapter 19
The Duties of Government Officials
Weights and measures. Materials that do not warp
पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ।। ०२.१९.०१ ।। धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ।। ०२.१९.०२ ।। ते षोडश सुवर्णः कर्षो वा ।। ०२.१९.०३ ।। चतुष्-कर्षं पलं ।। ०२.१९.०४ ।। अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ।। ०२.१९.०५ ।। ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ।। ०२.१९.०६ ।। विंशति-तण्डुलं वज्र-धरणं ।। ०२.१९.०७ ।। अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ।। ०२.१९.०८ ।। तेन धरणानि व्याख्यातानि ।। ०२.१९.०९ ।। प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ।। ०२.१९.१० ।। षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ।। ०२.१९.११ ।। पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ।। ०२.१९.१२ ।। तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ।। ०२.१९.१३ ।। ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ।। ०२.१९.१४ ।। तत आ-शताद्दश-उत्तरं कारयेत् ।। ०२.१९.१५ ।। अक्षेषु नान्दी-पिनद्धं कारयेत् ।। ०२.१९.१६ ।। द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ।। ०२.१९.१७ ।। तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ।। ०२.१९.१८ ।। विंशति-तौलिको भारः ।। ०२.१९.१९ ।। दश-धारणिकं पलं ।। ०२.१९.२० ।। तत्-पल-शतं आय-मानी ।। ०२.१९.२१ ।। पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ।। ०२.१९.२२ ।। तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ।। ०२.१९.२३ ।। पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ।। ०२.१९.२४ ।। काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ।। ०२.१९.२५ ।। काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ।। ०२.१९.२६ ।। एष प्रदेशो बह्व्-अल्पयोः ।। ०२.१९.२७ ।। इति तुला-प्रतिमानं व्याख्यातं ।। ०२.१९.२८ ।। अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ।। ०२.१९.२९ ।। तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ।। ०२.१९.३० ।। षोडश-द्रोणा खारी ।। ०२.१९.३१ ।। विंशति-द्रोणिकः कुम्भः ।। ०२.१९.३२ ।। कुम्भैर्दशभिर्वहः ।। ०२.१९.३३ ।। शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ।। ०२.१९.३४ ।। रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ।। ०२.१९.३५ ।। सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ।। ०२.१९.३६ ।। द्वि-गुणं रस-आदीनां मान-मूल्यं ।। ०२.१९.३७ ।। विंशति-पणाः प्रतिमानस्य ।। ०२.१९.३८ ।। तुला-मूल्यं त्रि-भागः ।। ०२.१९.३९ ।। चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ।। ०२.१९.४० ।। अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ।। ०२.१९.४१ ।। प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ।। ०२.१९.४२ ।। द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ।। ०२.१९.४३ ।। पञ्चाशद्भागो मान-स्रावो द्रवाणां ।। ०२.१९.४४ ।। कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ।। ०२.१९.४५ ।। कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ।। ०२.१९.४६ ।। चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ।। ०२.१९.४७ ।।
✦ ✦ ✦
“The Superintendent of Weights and Measures shall have the same manufactured. Weights shall…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.