Arthashastra. Book 2, Chapter 20: Measurement of space and time
Book 2 · Chapter 20
The Duties of Government Officials
Measurement of space and time
मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ।। ०२.२०.०१ ।। अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ।। ०२.२०.०२ ।। ता अष्टौ लिक्षा ।। ०२.२०.०३ ।। ता अष्तौ यूका ।। ०२.२०.०४ ।। ता अष्टौ यव-मध्यः ।। ०२.२०.०५ ।। अष्टौ यव-मध्या अङ्गुलं ।। ०२.२०.०६ ।। मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ।। ०२.२०.०७ ।। चतुर्-अङ्गुलो धनुर्-ग्रहः ।। ०२.२०.०८ ।। अष्ट-अङ्गुला धनुर्-मुष्टिः ।। ०२.२०.०९ ।। द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ।। ०२.२०.१० ।। चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ।। ०२.२०.११ ।। द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ।। ०२.२०.१२ ।। सधनुर्-ग्रहः पौतव-विवीत-मानं ।। ०२.२०.१३ ।। सधनुर्-मुष्टिः कुष्कुः कंसो वा ।। ०२.२०.१४ ।। द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ।। ०२.२०.१५ ।। चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ।। ०२.२०.१६ ।। चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ।। ०२.२०.१७ ।। चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ।। ०२.२०.१८ ।। अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ।। ०२.२०.१९ ।। षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ।। ०२.२०.२० ।। दश-दण्डो रज्जुः ।। ०२.२०.२१ ।। द्वि-रज्जुकः परिदेशः ।। ०२.२०.२२ ।। त्रि-रज्जुकं निवर्तनं एकतः ।। ०२.२०.२३ ।। द्वि-दण्ड-अधिको बाहुः ।। ०२.२०.२४ ।। द्वि-धनुः-सहस्रं गो-रुतं ।। ०२.२०.२५ ।। चतुर्-गो-रुतं योजनं ।। ०२.२०.२६ ।। इति देश-मानं ।। ०२.२०.२७ ।। काल-मानं अत ऊर्ध्वं ।। ०२.२०.२८ ।। तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ।। ०२.२०.२९ ।। द्वौ तुटौ लवः ।। ०२.२०.३० ।। द्वौ लवौ निमेषः ।। ०२.२०.३१ ।। पञ्च-निमेषाः काष्ठाः ।। ०२.२०.३२ ।। त्रिंशत्-काष्ठाः कलाः ।। ०२.२०.३३ ।। चत्वारिंशत्-कलाः नालिका ।। ०२.२०.३४ ।। सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ।। ०२.२०.३५ ।। द्वि-नालिको मुहूर्तः ।। ०२.२०.३६ ।। पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ।। ०२.२०.३७ ।। ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ।। ०२.२०.३८ ।। छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ।। ०२.२०.३९ ।। परावृत्ते दिवसे शेषं एवं विद्यात् ।। ०२.२०.४० ।। आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ।। ०२.२०.४१ ।। अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ।। ०२.२०.४२ ।। पञ्चदश-अहो-रात्राः पक्षः ।। ०२.२०.४३ ।। सोम-आप्यायनः शुक्लः ।। ०२.२०.४४ ।। सोम-अवच्छेदनो बहुलः ।। ०२.२०.४५ ।। द्वि-पक्षो मासः ।। ०२.२०.४६ ।। त्रिंशद्-अहो-रात्रः कर्म-मासः ।। ०२.२०.४७ ।। सार्धः सौरः ।। ०२.२०.४८ ।। अर्ध-न्यूनश्चान्द्र-मासः ।। ०२.२०.४९ ।। सप्त-विंशतिर्नाक्षत्र-मासः ।। ०२.२०.५० ।। द्वात्रिंशद्बल-मासः ।। ०२.२०.५१ ।। पञ्चत्रिंशदश्व-वाहायाः ।। ०२.२०.५२ ।। चत्वारिंशद्द्-हस्ति-वाहायाः ।। ०२.२०.५३ ।। द्वौ मासावृतुः ।। ०२.२०.५४ ।। श्रावणः प्रौष्ठपदश्च वर्षाः ।। ०२.२०.५५ ।। आश्वयुजः कार्त्तिकश्च शरत् ।। ०२.२०.५६ ।। मार्ग-शीर्षः पौषश्च हेमन्तः ।। ०२.२०.५७ ।। माघः फाल्गुनश्च शिशिरः ।। ०२.२०.५८ ।। चैत्रो वैशाखश्च वसन्तः ।। ०२.२०.५९ ।। ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ।। ०२.२०.६० ।। शिशिर-आद्युत्तर-अयणं ।। ०२.२०.६१ ।। वर्ष-आदि दक्षिण-अयनं ।। ०२.२०.६२ ।। द्व्य्-अयनः संवत्सरः ।। ०२.२०.६३ ।। पञ्च-संवत्सरो युगं इति ।। ०२.२०.६४ ।। दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ।। ०२.२०.६५अ ब ।। करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ।। ०२.२०.६५च्द् ।। एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ।। ०२.२०.६६अ ब ।। ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ।। ०२.२०.६६च्द् ।।
✦ ✦ ✦
“The day is divided into eight parts, the night into eight, and each office knows which par…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.