Arthashastra. Book 2, Chapter 21: The superintendent of tolls

Book 2 · Chapter 21

The Duties of Government Officials

The superintendent of tolls

शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ।। ०२.२१.०१ ।। शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ।। ०२.२१.०२ ।। अमुद्राणां अत्ययो देय-द्वि-गुणः ।। ०२.२१.०३ ।। कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ।। ०२.२१.०४ ।। भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ।। ०२.२१.०५ ।। राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ।। ०२.२१.०६ ।। ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ।। ०२.२१.०७ ।। त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ।। ०२.२१.०८ ।। क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०२.२१.०९ ।। शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ।। ०२.२१.१० ।। शुल्कं अष्ट-गुणं वा दद्यात् ।। ०२.२१.११ ।। तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ।। ०२.२१.१२ ।। प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ।। ०२.२१.१३ ।। तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ।। ०२.२१.१४ ।। तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ।। ०२.२१.१५ ।। ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ।। ०२.२१.१६ ।। पथिक-उत्पथिकास्तद्विद्युः ।। ०२.२१.१७ ।। वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ।। ०२.२१.१८ ।। अन्यथा-वादिनः स्तेय-दण्डः ।। ०२.२१.१९ ।। कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ।। ०२.२१.२० ।। शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ।। ०२.२१.२१ ।। शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ।। ०२.२१.२२ ।। तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ।। ०२.२१.२३ ।। अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ।। ०२.२१.२४ ।। नष्ट-अपहृतं च प्रतिविदध्यात् ।। ०२.२१.२५ ।। वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ।। ०२.२१.२६ ।। वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ।। ०२.२१.२७ ।। तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ।। ०२.२१.२८ ।। ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ।। ०२.२१.२९ ।। निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ।। ०२.२१.३० ।। राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ।। ०२.२१.३१अ ब ।। महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ।। ०२.२१.३१च्द् ।।

✦ ✦ ✦

Goods entering the city pass through the toll house at the gate. Each merchant declares wh
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.