Arthashastra. Book 2, Chapter 24: Liquor. Regulated trade, not denied trade

Book 2 · Chapter 24

The Duties of Government Officials

Liquor. Regulated trade, not denied trade

सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ।। ०२.२४.०१ ।। बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ।। ०२.२४.०२ ।। कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ।। ०२.२४.०३ ।। तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ।। ०२.२४.०४ ।। षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ।। ०२.२४.०५ ।। वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ।। ०२.२४.०६ ।। तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ।। ०२.२४.०७ ।। सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ।। ०२.२४.०८ ।। त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ।। ०२.२४.०९अ ब ।। षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ।। ०२.२४.०९च्द् ।। वातं आतप-योगं च विभजन्यत्र वर्षति । ।। ०२.२४.१०अ ब ।। त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ।। ०२.२४.१०च्द् ।। ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ।। ०२.२४.११ ।। शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ।। ०२.२४.१२ ।। मुद्ग-माष-शैम्ब्या मध्य-वापाः ।। ०२.२४.१३ ।। कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ।। ०२.२४.१४ ।। यथा-ऋतु-वशेन वा बीज-वापाः ।। ०२.२४.१५ ।। वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ।। O२.२४.१६ ।। यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ।। ऊ२.२४.१७ ।। स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ।। ऊ२.२४.१८ ।। कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ।। ऊ२.२४.१९ ।। शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ।। ऊ२.२४.२० ।। इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ।। ०२.२४.२१ ।। फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ।। ०२.२४.२२ ।। यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ।। ०२.२४.२३ ।। तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ।। ०२.२४.२४ ।। प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ।। ०२.२४.२५ ।। कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ।। ०२.२४.२६अ ब ।। न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ।। ०२.२४.२६च्द् ।। सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ।। ०२.२४.२७ ।। षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ।। ०२.२४.२८ ।। कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ।। ०२.२४.२९ ।। प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ।। ०२.२४.३० ।। यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ।। ०२.२४.३१अ ब ।। न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ।। ०२.२४.३१च्द् ।। प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ।। ०२.२४.३२अ ब ।। न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। ०२.२४.३२च्द् ।। खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ।। ०२.२४.३३अ ब ।। अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ।। ०२.२४.३३च्द् ।।

✦ ✦ ✦

Liquor shall be sold from fixed shops with known signs, the brewer's name on the vessel an
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.