Arthashastra. Book 2, Chapter 25: Slaughter houses. Hygiene, weights, and protected species

Book 2 · Chapter 25

The Duties of Government Officials

Slaughter houses. Hygiene, weights, and protected species

सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ।। ०२.२५.०१ ।। षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.२५.०२ ।। ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ।। ०२.२५.०३ ।। लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ।। ०२.२५.०४ ।। पान-अगारेषु वा पिबेयुरसंचारिणः ।। ०२.२५.०५ ।। निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ।। ०२.२५.०६ ।। न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ।। ०२.२५.०७ ।। तां अन्यत्र विक्रापयेत् ।। ०२.२५.०८ ।। दास-कर्म-करेभ्यो वा वेतनं दद्यात् ।। ०२.२५.०९ ।। वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ।। ०२.२५.१० ।। पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ।। ०२.२५.११ ।। तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ।। ०२.२५.१२ ।। क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ।। ०२.२५.१३ ।। तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ।। ०२.२५.१४ ।। वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ।। ०२.२५.१५ ।। मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ।। ०२.२५.१६ ।। उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ।। ०२.२५.१७ ।। द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ।। ०२.२५.१८ ।। कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ।। ०२.२५.१९ ।। पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ।। ऊ२.२५.२० ।। चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ।। ऊ२.२५.२१ ।। मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ।। ऊ२.२५.२२ ।। गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ।। य़्२.२५.२३ ।। मृद्वीका-रसो मधु ।। ऊ२.२५.२४ ।। तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ।। उ२.२५.२५ ।। माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ।। ऊ२.२५.२६ ।। पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ।। ०२.२५.२७ ।। मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ।। ०२.२५.२८ ।। चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ।। ०२.२५.२९ ।। दश-भागश्चएषां बीज-बन्धः ।। ०२.२५.३० ।। प्रसन्ना-योगः श्वेत-सुरायाः ।। ०२.२५.३१ ।। सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ।। ०२.२५.३२ ।। तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ।। ०२.२५.३३ ।। फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ।। ०२.२५.३४ ।। कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ।। ०२.२५.३५ ।। उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ।। ०२.२५.३६ ।। तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ।। ०२.२५.३७ ।। सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ।। ०२.२५.३८ ।। अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ।। ०२.२५.३९ ।। अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ।। ०२.२५.४०अ ब ।। तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।। ०२.२५.४०च्द् ।।

✦ ✦ ✦

Animals of the forest reserved for the king's hunt, calves still suckling, bulls used for
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.