Arthashastra. Book 2, Chapter 27: Ships. The port is the border that earns
Book 2 · Chapter 27
The Duties of Government Officials
Ships. The port is the border that earns
गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ।। ०२.२७.०१ ।। निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ।। ०२.२७.०२ ।। तासां अभावे राजा हरेत् ।। ०२.२७.०३ ।। सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ।। ०२.२७.०४ ।। सौभाग्य-भङ्गे मातृकां कुर्यात् ।। ०२.२७.०५ ।। निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ।। ०२.२७.०६ ।। अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ।। ०२.२७.०७ ।। गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ।। ०२.२७.०८ ।। अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ।। ०२.२७.०९ ।। भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ।। ०२.२७.१० ।। मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ।। ०२.२७.११ ।। स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ।। ०२.२७.१२ ।। अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ।। ०२.२७.१३ ।। गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ।। ०२.२७.१४ ।। स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ।। ०२.२७.१५ ।। प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ।। ०२.२७.१६ ।। मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ।। ०२.२७.१७ ।। सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ।। ०२.२७.१८ ।। राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ।। ०२.२७.१९ ।। भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ।। ०२.२७.२० ।। वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ।। ०२.२७.२१ ।। पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ।। ०२.२७.२२ ।। गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ।। ०२.२७.२३ ।। गणिका भोगं आयतिं पुरुषं च निवेदयेत् ।। ०२.२७.२४ ।। एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ।। ०२.२७.२५ ।। तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ।। ०२.२७.२६ ।। रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ।। ०२.२७.२७ ।। गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ।। ०२.२७.२८ ।। गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ।। ०२.२७.२९ ।। संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ।। ०२.२७.३०अ ब ।। चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ।। ०२.२७.३०च्द् ।।
✦ ✦ ✦
“The superintendent of ships shall control sea going vessels, river craft, and the ferries…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.