Arthashastra. Book 2, Chapter 28: Cattle. Branding, registry, and disease control
Book 2 · Chapter 28
The Duties of Government Officials
Cattle. Branding, registry, and disease control
नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ।। ०२.२८.०१ ।। तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ।। ०२.२८.०२ ।। मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ।। ०२.२८.०३ ।। पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ।। ०२.२८.०४ ।। शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ।। ०२.२८.०५ ।। अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ।। ०२.२८.०६ ।। पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ।। ०२.२८.०७ ।। मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ।। ०२.२८.०८ ।। उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ।। ०२.२८.०९ ।। यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ।। ०२.२८.१० ।। सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ।। ०२.२८.११ ।। हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ।। ०२.२८.१२ ।। शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ।। ०२.२८.१३ ।। बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ।। ०२.२८.१४ ।। अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ।। ०२.२८.१५ ।। काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ।। ०२.२८.१६ ।। कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ।। ०२.२८.१७ ।। ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ।। ०२.२८.१८ ।। कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ।। ०२.२८.१९ ।। परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ।। ०२.२८.२० ।। क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ।। ०२.२८.२१ ।। तेन भाण्ड-भारो व्याख्यातः ।। ०२.२८.२२ ।। द्वि-गुणो महा-नदीषु तरः ।। ०२.२८.२३ ।। क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ।। ०२.२८.२४ ।। प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ।। ०२.२८.२५ ।। पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ।। ०२.२८.२६ ।। सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ।। ०२.२८.२७अ ब ।। कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ।। ०२.२८.२७च्द् ।।
✦ ✦ ✦
“Cattle of the king and of private owners shall be registered with their marks, age, and co…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.