Arthashastra. Book 2, Chapter 29: Horses. Breed, train, retire

Book 2 · Chapter 29

The Duties of Government Officials

Horses. Breed, train, retire

गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ।। ०२.२९.०१ ।। गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ।। ०२.२९.०२ ।। क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ।। ०२.२९.०३ ।। जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ।। ०२.२९.०४ ।। घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ।। ०२.२९.०५ ।। व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ।। ०२.२९.०६ ।। पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ।। ०२.२९.०७ ।। वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ।। ०२.२९.०८ ।। मास-द्वि-मास-जातानङ्कयेत् ।। ०२.२९.०९ ।। मास-द्वि-मास-पर्युषितं अङ्कयेत् ।। ०२.२९.१० ।। अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ।। ०२.२९.११ ।। चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ।। ०२.२९.१२ ।। पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ।। ०२.२९.१३ ।। प्रमादादभ्यावहेयुः ।। ०२.२९.१४ ।। एवं रूप-अग्रं विद्यात् ।। ०२.२९.१५ ।। स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ।। ०२.२९.१६ ।। पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ।। ०२.२९.१७ ।। स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ।। ०२.२९.१८ ।। पर-देशीयानां मोक्षयिताअर्धं हरेत् ।। ०२.२९.१९ ।। बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ।। ०२.२९.२० ।। लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ।। ०२.२९.२१ ।। सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ।। ०२.२९.२२ ।। सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ।। ०२.२९.२३ ।। स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ।। ०२.२९.२४ ।। कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ।। ०२.२९.२५ ।। मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ।। ०२.२९.२६ ।। उदश्वित्-श्व-वराहेभ्यो दद्युः ।। ०२.२९.२७ ।। कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ।। ०२.२९.२८ ।। किलाटो घाण-पिण्याक-क्लेद-अर्थः ।। ०२.२९.२९ ।। पशु-विक्रेता पादिकं रूपं दद्यात् ।। ०२.२९.३० ।। वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ।। ०२.२९.३१ ।। द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ।। ०२.२९.३२ ।। दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ।। ०२.२९.३३ ।। एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ।। ०२.२९.३४ ।। क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ।। ०२.२९.३५ ।। मन्थो वा सर्वेषां प्रमाणं ।। ०२.२९.३६ ।। भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ।। ०२.२९.३७ ।। यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ।। ०२.२९.३८ ।। वर्ण-अवरोधेन दशती रक्षा ।। ०२.२९.३९ ।। उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ।। ०२.२९.४० ।। अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ।। ०२.२९.४१ ।। तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ।। ०२.२९.४२ ।। बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ।। ०२.२९.४३ ।। पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ।। ०२.२९.४४ ।। कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ।। ०२.२९.४५ ।। सर्वेषां तृण-उदक-प्राकाम्यं ।। ०२.२९.४६ ।। इति गो-मण्डलं व्याख्यातं ।। ०२.२९.४७ ।। पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ।। ०२.२९.४८अ ब ।। शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ।। ०२.२९.४८च्द् ।।

✦ ✦ ✦

The superintendent of horses shall maintain breeds suited to climate and country, distingu
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.