Arthashastra. Book 2, Chapter 3: Classes of land and planting people on new ground
Book 2 · Chapter 3
The Duties of Government Officials
Classes of land and planting people on new ground
चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ।। ०२.३.०१ ।। तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ।। ०२.३.०२ ।। जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ।। ०२.३.०३ ।। तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ।। ०२.३.०४ ।। चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ।। ०२.३.०५ ।। पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ।। ०२.३.०६ ।। वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ।। ०२.३.०७अ ।। रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ।। ०२.३.०७ब ।। पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ।। ०२.३.०८ ।। अग्निरवहितो हि तस्मिन्वसति ।। ०२.३.०९ ।। विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ।। ०२.३.१० ।। द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ।। ०२.३.११ ।। अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ।। ०२.३.१२ ।। अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ।। ०२.३.१३ ।। दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ।। ०२.३.१४ ।। बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ।। ०२.३.१५ ।। प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ।। ०२.३.१६ ।। पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ।। ०२.३.१७ ।। स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ।। ०२.३.१८ ।। आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ।। ०२.३.१९ ।। दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ।। ०२.३.२० ।। समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ।। ०२.३.२१ ।। अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ।। ०२.३.२२ ।। द्वि-हस्तं तोरण-शिरः ।। ०२.३.२३ ।। त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ।। ०२.३.२४ ।। द्वौ परिघौ ।। ०२.३.२५ ।। अरत्निरिन्द्र-कीलः ।। ०२.३.२६ ।। पञ्च-हस्तं आणि-द्वारं ।। ०२.३.२७ ।। चत्वारो हस्ति-परिघाः ।। ०२.३.२८ ।। निवेश-अर्धं हस्ति-नखं ।। ०२.३.२९ ।। मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ।। ०२.३.३० ।। प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ।। ०२.३.३१ ।। प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ।। ०२.३.३२ ।। त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ।। ०२.३.३३ ।। तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ।। ०२.३.३४अ ब ।। मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ।। ०२.३.३४च्द् ।। कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ।। ०२.३.३५अ ब ।। उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ।। ०२.३.३५च्द् ।।
✦ ✦ ✦
“Land is not one thing. Some is under the plough, some lies fallow waiting its turn, some i…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.