Arthashastra. Book 2, Chapter 30: Elephants. The most expensive asset on the field

Book 2 · Chapter 30

The Duties of Government Officials

Elephants. The most expensive asset on the field

अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ।। ०२.३०.०१ ।। अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ।। ०२.३०.०२ ।। कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ।। ०२.३०.०३ ।। अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ।। ०२.३०.०४ ।। अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ।। ०२.३०.०५ ।। शाला-वशेन वा दिग्-विभागं कल्पयेत् ।। ०२.३०.०६ ।। वडवा-वृष-किशोराणां एक-अन्तेषु ।। ०२.३०.०७ ।। वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ।। ०२.३०.०८ ।। अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ।। ०२.३०.०९ ।। ततः पुलाको यवसं आर्तवश्चऽहारः ।। ०२.३०.१० ।। दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ।। ०२.३०.११ ।। ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ।। ०२.३०.१२ ।। अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ।। ०२.३०.१३ ।। द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ।। ०२.३०.१४ ।। त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ।। ०२.३०.१५ ।। शत-अङ्गुलः परिणाहः ।। ०२.३०.१६ ।। पञ्च-भाग-अवरो मध्यम-अवरयोः ।। ०२.३०.१७ ।। उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ।। ०२.३०.१८ ।। दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ।। ०२.३०.१९ ।। पाद-अवरं एतन्मध्यम-अवरयोः ।। ०२.३०.२० ।। उत्तम-समो रथ्यो वृषश्च मध्यमः ।। ०२.३०.२१ ।। मध्यम-समश्चावरः ।। ०२.३०.२२ ।। पाद-हीनं वडवानां पारशमानां च ।। ०२.३०.२३ ।। अतोअर्धं किशोराणां च ।। ०२.३०.२४ ।। इति विधा-योगः ।। ०२.३०.२५ ।। विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ।। ०२.३०.२६ ।। युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ।। ०२.३०.२७ ।। असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ।। ०२.३०.२८ ।। प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ।। ०२.३०.२९ ।। तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ।। ०२.३०.३० ।। चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ।। ०२.३०.३१ ।। वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ।। ०२.३०.३२ ।। तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ।। ०२.३०.३३ ।। स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ।। ०२.३०.३४ ।। प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ।। ०२.३०.३५ ।। कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ।। ०२.३०.३६ ।। काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ।। ०२.३०.३७ ।। संज्ञा-प्रतिकारो नार-उष्ट्रैति ।। ०२.३०.३८ ।। षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ।। ०२.३०.३९ ।। विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ।। ०२.३०.४० ।। विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ।। ०२.३०.४१ ।। तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ।। ०२.३०.४२ ।। अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ।। ०२.३०.४३ ।। सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ।। ०२.३०.४४ ।। कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ।। ०२.३०.४५ ।। नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ।। ०२.३०.४६ ।। क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ।। ०२.३०.४७ ।। तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ।। ०२.३०.४८ ।। तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ।। ०२.३०.४९ ।। द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ।। ०२.३०.५०अ ब ।। कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ।। ०२.३०.५०च्द् ।। नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ।। ०२.३०.५१अ ब ।। यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ।। ०२.३०.५१च्द् ।।

✦ ✦ ✦

Elephants are captured from designated forests in their fourth decade of strength, brought
Continue this verse

The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.

₹149 · lifetime · no ads

Open in app ›

Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.

Read more like this

The full Neeti and Arthashastra, in your pocket.

339 Chanakya Neeti verses and the complete 15-book Arthashastra, Sanskrit with English and Hindi, plus five strategic frameworks built as decision tools. Offline-first, no ads, no subscription.

Start free with all 17 verses of Chapter 1. Full library unlock ₹149 in India · approximately $12 elsewhere · lifetime, no ads.

Download on the App StoreGet it on Google Play

Or explore the project.