Arthashastra. Book 2, Chapter 31: Chariots. Purpose built, driver trained, parade ready
Book 2 · Chapter 31
The Duties of Government Officials
Chariots. Purpose built, driver trained, parade ready
हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ।। ०२.३१.०१ ।। हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ।। ०२.३१.०२ ।। हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ।। ०२.३१.०३ ।। स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ।। ०२.३१.०४ ।। प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ।। ०२.३१.०५ ।। पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ।। ०२.३१.०६ ।। रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ।। ०२.३१.०७ ।। ग्रीष्मे ग्रहण-कालः ।। ०२.३१.०८ ।। विंशति-वर्षो ग्राह्यः ।। ०२.३१.०९ ।। विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ।। ०२.३१.१० ।। सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ।। ०२.३१.११ ।। तयोः पाद-अवरो विधा-विधिः ।। ०२.३१.१२ ।। अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ।। ०२.३१.१३ ।। सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ।। ०२.३१.१४ ।। यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ।। ०२.३१.१५ ।। क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ।। ०२.३१.१६ ।। संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ।। ०२.३१.१७ ।। शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ।। ०२.३१.१८अ ब ।। मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ।। ०२.३१.१८च्द् ।।
✦ ✦ ✦
“The superintendent of chariots shall maintain workshops for the heavy battle chariot, the…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.