Arthashastra. Book 2, Chapter 35: Pasture lands. Paths between villages and the prevention of theft
Book 2 · Chapter 35
The Duties of Government Officials
Pasture lands. Paths between villages and the prevention of theft
समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ।। ०२.३५.०१ ।। तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ।। ०२.३५.०२ ।। सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ।। ०२.३५.०३ ।। तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ।। ०२.३५.०४ ।। कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ।। ०२.३५.०५ ।। एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३५.०६ ।। गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ।। ०२.३५.०७ ।। समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ।। ०२.३५.०८ ।। तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ।। ०२.३५.०९ ।। प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ।। ०२.३५.१० ।। एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ।। ०२.३५.११ ।। पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ।। ०२.३५.१२ ।। एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०२.३५.१३ ।। पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ।। ०२.३५.१४ ।। समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ।। ०२.३५.१५अ ब ।। चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ।। ०२.३५.१५च्द् ।।
✦ ✦ ✦
“The superintendent of pasture lands shall set aside grazing grounds outside each village,…”
The full English translation and modern reading for this verse are inside the Chanakyaverse app. Free for the 17 verses of Chapter 1; the rest of the corpus unlocks for one-time ₹149 in India (approximately $12 elsewhere). No ads, no subscription.
₹149 · lifetime · no ads
Open in app ›Want a free taste first? Read the 17 free verses of Chapter 1 or browse the 25-essay library on the Chanakyaverse blog.